॥ ॐ श्री गणपतये नमः ॥

५० सर्गः

इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम्अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम्

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश्च सर्वशः

महद्धिरण्या विवरं प्रविष्टाः स्म पिपासिताःइमांस्त्वेवं विधान्भावान्विविधानद्भुतोपमान्दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः

कस्येमे काञ्चना वृक्षास्तरुणादित्यसंनिभाःशुचीन्यभ्यवहार्याणि मूलानि फलानि

काञ्चनानि विमानानि राजतानि गृहाणि तपनीय गवाक्षाणि मणिजालावृतानि

पुष्पिताः फालवन्तश्च पुण्याः सुरभिगन्धिनःइमे जाम्बूनदमयाः पादपाः कस्य तेजसा

काञ्चनानि पद्मानि जातानि विमले जलेकथं मत्स्याश्च सौवर्णा चरन्ति सह कच्छपैः

आत्मानमनुभावं कस्य चैतत्तपोबलम्अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि

एवमुक्ता हनुमता तापसी धर्मचारिणीप्रत्युवाच हनूमन्तं सर्वभूतहिते रता

मयो नाम महातेजा मायावी दानवर्षभःतेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्१०

पुरा दानवमुख्यानां विश्वकर्मा बभूव येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्११

तु वर्षसहस्राणि तपस्तप्त्वा महावनेपितामहाद्वरं लेभे सर्वमौशसनं धनम्१२

विधाय सर्वं बलवान्सर्वकामेश्वरस्तदाउवास सुखितः कालं कंचिदस्मिन्महावने१३

तमप्सरसि हेमायां सक्तं दानवपुंगवम्विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः१४

इदं ब्रह्मणा दत्तं हेमायै वनमुत्तमम्शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम्१५

दुहिता मेरुसावर्णेरहं तस्याः स्वयं प्रभाइदं रक्षामि भवनं हेमाया वानरोत्तम१६

मम प्रियसखी हेमा नृत्तगीतविशारदातया दत्तवरा चास्मि रक्षामि भवनोत्तमम्१७

किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथकथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्१८

इमान्यभ्यवहार्याणि मूलानि फलानि भुक्त्वा पीत्वा पानीयं सर्वं मे वक्तुमर्हथ१९

इति श्रीरामायणे किष्किन्धाकाण्डे पञ्चाशः सर्गः५०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved