॥ ॐ श्री गणपतये नमः ॥

५२ सर्गः

एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम्

शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणियः कृतः समयोऽस्माकं सुग्रीवेण महात्मना तु कालो व्यतिक्रान्तो बिले परिवर्तताम्

सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि

तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषःत्रातुमर्हसि नः सर्वान्सुग्रीवभयशङ्कितान्

महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणितच्चापि कृतं कार्यमस्माभिरिह वासिभिः

एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्

तपसस्तु प्रभावेन नियमोपार्जितेन सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान्

निमीलयत चक्षूंषि सर्वे वानरपुंगवाः हि निष्क्रमितुं शक्यमनिमीलितलोचनैः

ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैःसहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः

वानरास्तु महात्मानो हस्तरुद्धमुखास्तदानिमेषान्तरमात्रेण बिलादुत्तारितास्तया१०

ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणीनिःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत्११

एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलतायुतःएष प्रसवणः शैलः सागरोऽयं महोदधिः१२

स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाःइत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयंप्रभा१३

ततस्ते ददृशुर्घोरं सागरं वरुणालयम्अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम्१४

मयस्य माया विहितं गिरिदुर्गं विचिन्वताम्तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः१५

विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपेउपविश्य महाभागाश्चिन्तामापेदिरे तदा१६

ततः पुष्पातिभाराग्राँल्लताशतसमावृतान्द्रुमान्वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः१७

ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम्नष्टसंदेशकालार्था निपेतुर्धरणीतले१८

तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिःयुवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्१९

शासनात्कपिराजस्य वयं सर्वे विनिर्गताःमासः पूर्णो बिलस्थानां हरयः किं बुध्यते२०

तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्प्रायोपवेशनं युक्तं सर्वेषां वनौकसाम्२१

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः क्षमिष्यति नः सर्वानपराधकृतो गतान्२२

अप्रवृत्तौ सीतायाः पापमेव करिष्यतितस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः२३

त्यक्त्वा पुत्रांश्च दारांश्च धनानि गृहाणि यावन्न घातयेद्राजा सर्वान्प्रतिगतानितःवधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः२४

चाहं यौवराज्येन सुग्रीवेणाभिषेचितःनरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा२५

पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः२६

किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरेइहैव प्रायमासिष्ये पुण्ये सागररोधसि२७

एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्२८

तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवःअदृष्टायां वैदेह्यां दृष्ट्वास्मांश्च समागतान्२९

राघवप्रियकामार्थं घातयिष्यत्यसंशयम् क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः३०

प्लवंगमानां तु भयार्दितानांश्रुत्वा वचस्तार इदं बभाषेअलं विषादेन बिलं प्रविश्यवसाम सर्वे यदि रोचते वः३१

इदं हि माया विहितं सुदुर्गमंप्रभूतवृक्षोदकभोज्यपेयम्इहास्ति नो नैव भयं पुरंदरान्न राघवाद्वानरराजतोऽपि वा३२

श्रुत्वाङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे हरयः प्रतीताःयथा हन्येम तथाविधानमसक्तमद्यैव विधीयतां नः३३

इति श्रीरामायणे किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः५२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved