॥ ॐ श्री गणपतये नमः ॥

६६ सर्गः

संस्तूयमानो हनुमान्व्यवर्धत महाबलःसमाविध्य लाङ्गूलं हर्षाच्च बलमेयिवान्

तस्य संस्तूयमानस्य सर्वैर्वानरपुंगवैःतेजसापूर्यमाणस्य रूपमासीदनुत्तमम्

यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरेमारुतस्यौरसः पुत्रस्तथा संप्रति जृम्भते

अशोभत मुखं तस्य जृम्भमाणस्य धीमतःअम्बरीषोपमं दीप्तं विधूम इव पावकः

हरीणामुत्थितो मध्यात्संप्रहृष्टतनूरुहःअभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत्

अरुजन्पर्वताग्राणि हुताशनसखोऽनिलःबलवानप्रमेयश्च वायुराकाशगोचरः

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनःमारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः

उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्मेरुं गिरिमसंगेन परिगन्तुं सहस्रशः

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहेसमाप्लावयितुं लोकं सपर्वतनदीह्रदम्

ममोरुजङ्घावेगेन भविष्यति समुत्थितःसंमूर्छितमहाग्राहः समुद्रो वरुणालयः१०

पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम्वैनतेयमहं शक्तः परिगन्तुं सहस्रशः११

उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्अनस्तमितमादित्यमभिगन्तुं समुत्सहे१२

ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहेप्रवेगेनैव महता भीमेन प्लवगर्षभाः१३

उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम्१४

पर्वतान्कम्पयिष्यामि प्लवमानः प्लवंगमाःहरिष्ये चोरुवेगेन प्लवमानो महार्णवम्१५

लतानां वीरुधां पुष्पं पादपानां सर्वशःअनुयास्यति मामद्य प्लवमानं विहायसाभविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे१६

चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव द्रक्ष्यन्ति निपतन्तं सर्वभूतानि वानराः१७

महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवंगमाःदिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम्१८

विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान्सागरं क्षोभयिष्यामि प्लवमानः समाहितः१९

वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वाऋते सुपर्णराजानं मारुतं वा महाबलम् हि भूतं प्रपश्यामि यो मां प्लुतमनुव्रजेत्२०

निमेषान्तरमात्रेण निरालम्भनमम्बरम्सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता२१

भविष्यति हि मे रूपं प्लवमानस्य सागरम्विष्णोः प्रक्रममाणस्य तदा त्रीन्विक्रमानिव२२

बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा मे तथाअहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः२३

मारुतस्य समो वेगे गरुडस्य समो जवेअयुतं योजनानां तु गमिष्यामीति मे मतिः२४

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवःविक्रम्य सहसा हस्तादमृतं तदिहानयेलङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः२५

तमेवं वानरश्रेष्ठं गर्जन्तममितौजसंउवाच परिसंहृष्टो जाम्बवान्हरिसत्तमः२६

वीर केसरिणः पुत्र वेगवन्मारुतात्मजज्ञातीनां विपुलं शोकस्त्वया तात प्रणाशितः२७

तव कल्याणरुचयः कपिमुख्याः समागताःमङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः२८

ऋषीणां प्रसादेन कपिवृद्धमतेन गुरूणां प्रसादेन प्लवस्व त्वं महार्णवम्२९

स्थास्यामश्चैकपादेन यावदागमनं तवत्वद्गतानि सर्वेषां जीवितानि वनौकसाम्३०

ततस्तु हरिशार्दूलस्तानुवाच वनौकसःनेयं मम मही वेगं प्लवने धारयिष्यति३१

एतानि हि नगस्यास्य शिलासंकटशालिनःशिखराणि महेन्द्रस्य स्थिराणि महान्ति ३२

एतानि मम निष्पेषं पादयोः पततां वराःप्लवतो धारयिष्यन्ति योजनानामितः शतम्३३

ततस्तु मारुतप्रख्यः हरिर्मारुतात्मजःआरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः३४

वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम्लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम्३५

सिंहशार्दूलचरितं मत्तमातङ्गसेवितम्मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम्३६

महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं महाबलःविचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः३७

पादाभ्यां पीडितस्तेन महाशैलो महात्मनाररास सिंहाभिहतो महान्मत्त इव द्विपः३८

मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयःवित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः३९

नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैःउत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि४०

त्यज्यमानमहासानुः संनिलीनमहोरगःशैलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः४१

निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैःसपताक इवाभाति तदा धरणीधरः४२

ऋषिभिस्त्रास संभ्रान्तैस्त्यज्यमानः शिलोच्चयःसीदन्महति कान्तारे सार्थहीन इवाध्वगः४३

वेगवान्वेगसमाहितात्माहरिप्रवीरः परवीरहन्तामनः समाधाय महानुभावोजगाम लङ्कां मनसा मनस्वी४४

इति श्रीरामायणे किष्किन्धाकाण्डे षट्षष्टितमः सर्गः६६

समाप्तं किष्किन्धाकाण्डम्


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved