॥ ॐ श्री गणपतये नमः ॥

४७ सर्गः

ततः कर्मणा तस्य विस्मितो भीमविक्रमःहनुमान्रोषताम्राक्षो रक्षोऽधिपमवैक्षत

भाजमानं महार्हेण काञ्चनेन विराजतामुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम्

वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैःहैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः

महार्हक्षौमसंवीतं रक्तचन्दनरूषितम्स्वनुलिप्तं विचित्राभिर्विविधभिश्च भक्तिभिः

विपुलैर्दर्शनीयैश्च रक्षाक्षैर्भीमदर्शनैःदीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः

शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसंनानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम्

नीलाञ्जनचय प्रख्यं हारेणोरसि राजतापूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम्

बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैःभ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः

महति स्फाटिके चित्रे रत्नसंयोगसंस्कृतेउत्तमास्तरणास्तीर्णे उपविष्टं वरासने

अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततःवालव्यजनहस्ताभिरारात्समुपसेवितम्१०

दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसामन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन मन्त्रिणा११

उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैःकृत्स्नैः परिवृतं लोकं चतुर्भिरिव सागरैः१२

मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिःअन्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम्१३

अपश्यद्राक्षसपतिं हनूमानतितेजसंविष्ठितं मेरुशिखरे सतोयमिव तोयदम्१४

तैः संपीड्यमानोऽपि रक्षोभिर्भीमविक्रमैःविस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत१५

भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम्मनसा चिन्तयामास तेजसा तस्य मोहितः१६

अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिःअहो राक्षसराजस्य सर्वलक्षणयुक्तता१७

यद्यधर्मो बलवान्स्यादयं राक्षसेश्वरःस्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता१८

तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाःअयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्१९

इति चिन्तां बहुविधामकरोन्मतिमान्कपिःदृष्ट्वा राक्षसराजस्य प्रभावममितौजसः२०

इति श्रीरामायणे सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः४७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved