॥ ॐ श्री गणपतये नमः ॥

१३ सर्गः

राघवेणाभये दत्ते संनतो रावणानुजःखात्पपातावनिं हृष्टो भक्तैरनुचरैः सह

तु रामस्य धर्मात्मा निपपात विभीषणःपादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः

अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणःधर्मयुक्तं युक्तं साम्प्रतं संप्रहर्षणम्

अनुजो रावणस्याहं तेन चास्म्यवमानितःभवन्तं सर्वभूतानां शरण्यं शरणं गतः

परित्यक्ता मया लङ्का मित्राणि धनानि भवद्गतं मे राज्यं जीवितं सुखानि

राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणेकरिष्यामि यथाप्राणं प्रवेक्ष्यामि वाहिनीम्

इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय

तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद

एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम्मध्ये वानरमुख्यानां राजानं रामशासनात्

तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाःप्रचुक्रुशुर्महानादान्साधु साध्विति चाब्रुवन्१०

अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम्कथं सागरमक्षोभ्यं तराम वरुणालयम्११

उपायैरभिगच्छामो यथा नदनदीपतिम्तराम तरसा सर्वे ससैन्या वरुणालयम्१२

एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणःसमुद्रं राघवो राजा शरणं गन्तुमर्हति१३

खानितः सगरेणायमप्रमेयो महोदधिःकर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः१४

एवं विभीषणेनोक्ते राक्षसेन विपश्चिताप्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत१५

लक्ष्मणं महातेजाः सुग्रीवं हरीश्वरम्सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच १६

विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचतेब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते१७

सुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणःउभाभ्यां संप्रधार्यार्यं रोचते यत्तदुच्यताम्१८

एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौसमुदाचार संयुक्तमिदं वचनमूचतुः१९

किमर्थं नो नरव्याघ्र रोचिष्यति राघवविभीषणेन यत्तूक्तमस्मिन्काले सुखावहम्२०

अबद्ध्वा सागरे सेतुं घोरेऽस्मिन्वरुणालयेलङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः२१

विभीषणस्य शूरस्य यथार्थं क्रियतां वचःअलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम्२२

एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेःसंविवेश तदा रामो वेद्यामिव हुताशनः२३

इति श्रीरामायणे युद्धकाण्डे त्रयोदशः सर्गः१३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved