॥ ॐ श्री गणपतये नमः ॥

१०१ सर्गः

इति प्रतिसमादिष्टो हनूमान्मारुतात्मजःप्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः

प्रविश्य तु महातेजा रावणस्य निवेशनम्ददर्श शशिना हीनां सातङ्कामिव रोहिणीम्

निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य रामस्य वचनं सर्वमाख्यातुमुपचक्रमे

वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणःकुशलं चाह सिद्धार्थो हतशत्रुररिंदमः

विभीषणसहायेन रामेण हरिभिः सहनिहतो रावणो देवि लक्ष्मणस्य नयेन

पृष्ट्वा कुशलं रामो वीरस्त्वां रघुनन्दनःअब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना

प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजयेदिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे

लब्धो नो विजयः सीते स्वस्था भव गतव्यथारावणः हतः शत्रुर्लङ्का चेयं वशे स्थिता

मया ह्यलब्धनिद्रेण धृतेन तव निर्जयेप्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ

संभ्रमश्च कर्तव्यो वर्तन्त्या रावणालयेविभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम्१०

तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसेअयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः११

एवमुक्ता समुत्पत्य सीता शशिनिभाननाप्रहर्षेणावरुद्धा सा व्याजहार किंचन१२

अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम्किं त्वं चिन्तयसे देवि किं मां नाभिभाषसे१३

एवमुक्ता हनुमता सीता धर्मे व्यवस्थिताअब्रवीत्परमप्रीता हर्षगद्गदया गिरा१४

प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम्१५

हि पश्यामि सदृशं चिन्तयन्ती प्लवंगममत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम्१६

पश्यामि तत्सौम्य पृथिव्यामपि वानरसदृशं मत्प्रियाख्याने तव दातुं भवेत्समम्१७

हिरण्यं वा सुवर्णं वा रत्नानि विविधानि राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम्१८

एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमःप्रगृहीताञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः१९

भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणिस्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम्२०

तवैतद्वचनं सौम्ये सारवत्स्निग्धमेव रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते२१

अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाःहतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम्२२

इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसेहन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा२३

क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम्घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः२४

राक्षस्यो दारुणकथा वरमेतं प्रयच्छ मेइच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः२५

मुष्टिभिः पाणिभिश्चैव चरणैश्चैव शोभनेघोरैर्जानुप्रहारैश्च दशनानां पातनैः२६

भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथाभृशं शुष्कमुखीभिश्च दारुणैर्लङ्घनैर्हतैः२७

एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनिहन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः२८

एवमुक्ता महुमता वैदेही जनकात्मजाउवाच धर्मसहितं हनूमन्तं यशस्विनी२९

राजसंश्रयवश्यानां कुर्वतीनां पराज्ञयाविधेयानां दासीनां कः कुप्येद्वानरोत्तम३०

भाग्यवैषम्ययोगेन पुरा दुश्चरितेन मयैतत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते३१

प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम्दासीनां रावणस्याहं मर्षयामीह दुर्बला३२

आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन्हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम३३

अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितःऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम३४

परः पापमादत्ते परेषां पापकर्मणाम्समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः३५

पापानां वा शुभानां वा वधार्हाणां प्लवंगमकार्यं कारुण्यमार्येण कश्चिन्नापराध्यति३६

लोकहिंसाविहाराणां रक्षसां कामरूपिणम्कुर्वतामपि पापानि नैव कार्यमशोभनम्३७

एवमुक्तस्तु हनुमान्सीतया वाक्यकोविदःप्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम्३८

युक्ता रामस्य भवती धर्मपत्नी यशस्विनीप्रतिसंदिश मां देवि गमिष्ये यत्र राघवः३९

एवमुक्ता हनुमता वैदेही जनकात्मजाअब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम४०

तस्यास्तद्वचनं श्रुत्वा हनुमान्पवनात्मजःहर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः४१

पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम्स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम्४२

तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम्आजगाम महावेगो हनूमान्यत्र राघवः४३

इति श्रीरामायणे युद्धकाण्डे एकोत्तरशततमः सर्गः१०१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved