॥ ॐ श्री गणपतये नमः ॥

१०७ सर्गः

एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम्इदं शुभतरं वाक्यं व्याजहार महेश्वरः

पुष्कराक्ष महाबाहो महावक्षः परंतपदिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर

दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमःअपावृत्तं त्वया संख्ये राम रावणजं भयम्

आश्वास्य भरतं दीनं कौसल्यां यशस्विनीम्कैकेयीं सुमित्रां दृष्ट्वा लक्ष्मणमातरम्

प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम्इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल

इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशःब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि

एष राजा विमानस्थः पिता दशरथस्तवकाकुत्स्थ मानुषे लोके गुरुस्तव महायशाः

इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितःलक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय

महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणःविमानशिखरस्थस्य प्रणाममकरोत्पितुः

दीप्यमानं स्वयां लक्ष्म्या विरजोऽम्बरधारिणम्लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः१०

हर्षेण महताविष्टो विमानस्थो महीपतिःप्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा११

आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुःबाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे१२

मे स्वर्गो बहुमतः संमानश्च सुरर्षिभिःत्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते१३

कैकेय्या यानि चोक्तानि वाक्यानि वदतां वरतव प्रव्राजनार्थानि स्थितानि हृदये मम१४

त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्अद्य दुःखाद्विमुक्तोऽस्मि नीहारादिव भास्करः१५

तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मनाअष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा१६

इदानीं विजानामि यथा सौम्य सुरेश्वरैःवधार्थं रावणस्येह विहितं पुरुषोत्तमम्१७

सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन१८

सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्जलार्द्रमभिषिक्तं द्रक्ष्यन्ति वसुधाधिपम्१९

अनुरक्तेन बलिना शुचिना धर्मचारिणाइच्छेयं त्वामहं द्रष्टुं भरतेन समागतम्२०

चतुर्दशसमाः सौम्य वने निर्यापितास्त्वयावसता सीतया सार्धं लक्ष्मणेन धीमता२१

निवृत्तवनवासोऽसि प्रतिज्ञा सफला कृतारावणं रणे हत्वा देवास्ते परितोषिताः२२

कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदनभ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि२३

इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत्कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य २४

सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया शापः कैकयीं घोरः सपुत्रां स्पृशेत्प्रभो२५

तथेति महाराजो राममुक्त्वा कृताञ्जलिम्लक्ष्मणं परिष्वज्य पुनर्वाक्यमुवाच २६

रामं शुश्रूषता भक्त्या वैदेह्या सह सीतयाकृता मम महाप्रीतिः प्राप्तं धर्मफलं ते२७

धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुविरामे प्रसन्ने स्वर्गं महिमानं तथैव २८

रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धनरामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा२९

एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयःअभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम्३०

एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम्देवानां हृदयं सौम्य गुह्यं रामः परंतपः३१

अवाप्तं धर्मचरणं यशश्च विपुलं त्वयारामं शुश्रूषता भक्त्या वैदेह्या सह सीतया३२

तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम्उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम्३३

कर्तव्यो तु वैदेहि मन्युस्त्यागमिमं प्रतिरामेण त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा३४

त्वं सुभ्रु समाधेया पतिशुश्रूवणं प्रतिअवश्यं तु मया वाच्यमेष ते दैवतं परम्३५

इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम्इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन्३६

इति श्रीरामायणे युद्धकाण्डे सप्ताधिकशततमः सर्गः१०७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved