॥ ॐ श्री गणपतये नमः ॥

३० सर्गः

जिते महेन्द्रेऽतिबले रावणस्य सुतेन वैप्रजापतिं पुरस्कृत्य गता लङ्कां सुरास्तदा

तं रावणं समासाद्य पुत्रभ्रातृभिरावृतम्अब्रवीद्गगने तिष्ठन्सान्त्वपूर्वं प्रजापतिः

वत्स रावण तुष्टोऽस्मि तव पुत्रस्य संयुगेअहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा

जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसाकृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै

अयं पुत्रोऽतिबलस्तव रावण रावणिःइन्द्रजित्त्विति विख्यातो जगत्येष भविष्यति

बलवाञ्शत्रुनिर्जेता भविष्यत्येष राक्षसःयमाश्रित्य त्वया राजन्स्थापितास्त्रिदशा वशे

तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनःकिं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः

अथाब्रवीन्महातेजा इन्द्रजित्समितिंजयःअमरत्वमहं देव वृणोमीहास्य मोक्षणे

अब्रवीत्तु तदा देवो रावणिं कमलोद्भवःनास्ति सर्वामरत्वं हि केषांचित्प्राणिनां भुवि

अथाब्रवीत्स तत्रस्थमिन्द्रजित्पद्मसंभवम्श्रूयतां या भवेत्सिद्धिः शतक्रतुविमोक्षणे१०

ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम्संग्राममवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः११

तस्मिंश्चेदसमाप्ते तु जप्यहोमे विभावसोःयुध्येयं देव संग्रामे तदा मे स्याद्विनाशनम्१२

सर्वो हि तपसा चैव वृणोत्यमरतां पुमान्विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम्१३

एवमस्त्विति तं प्राह वाक्यं देवः प्रजापतिःमुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः१४

एतस्मिन्नन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजःराम चिन्तापरीतात्मा ध्यानतत्परतां गतः१५

तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिःशतक्रतो किमुत्कण्ठां करोषि स्मर दुष्कृतम्१६

अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभोएकवर्णाः समाभाषा एकरूपाश्च सर्वशः१७

तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वाततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम्१८

सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममेयद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम्१९

ततो मया रूपगुणैरहल्या स्त्री विनिर्मिताअहल्येत्येव मया तस्या नाम प्रवर्तितम्२०

निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभभविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत्२१

त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभोस्थानाधिकतया पत्नी ममैषेति पुरंदर२२

सा मया न्यासभूता तु गौतमस्य महात्मनःन्यस्ता बहूनि वर्षाणि तेन निर्यातिता सा२३

ततस्तस्य परिज्ञाय मया स्थैर्यं महामुनेःज्ञात्वा तपसि सिद्धिं पत्न्यर्थं स्पर्शिता तदा२४

तया सह धर्मात्मा रमते स्म महामुनिःआसन्निराशा देवास्तु गौतमे दत्तया तया२५

त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेःदृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव२६

सा त्वया धर्षिता शक्र कामार्तेन समन्युनादृष्टस्त्वं तदा तेन आश्रमे परमर्षिणा२७

ततः क्रुद्धेन तेनासि शप्तः परमतेजसागतोऽसि येन देवेन्द्र दशाभागविपर्ययम्२८

यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम्तस्मात्त्वं समरे राजञ्शत्रुहस्तं गमिष्यसि२९

अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितःमानुषेष्वपि सर्वेषु भविष्यति संशयः३०

तत्राधर्मः सुबलवान्समुत्थास्यति यो महान्तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति३१

ते स्थावरं स्थानं भविष्यति पुरंदरएतेनाधर्मयोगेन यस्त्वयेह प्रवर्तितः३२

यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः भविष्यतिएष शापो मया मुक्त इत्यसौ त्वां तदाब्रवीत्३३

तां तु भार्यां विनिर्भर्त्स्य सोऽब्रवीत्सुमहातपाःदुर्विनीते विनिध्वंस ममाश्रमसमीपतः३४

रूपयौवनसंपन्ना यस्मात्त्वमनवस्थितातस्माद्रूपवती लोके त्वमेका भविष्यसि३५

रूपं तत्प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम्यत्तवेदं समाश्रित्य विभ्रमेऽयमुपस्थितः३६

तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताःशापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपागतम्३७

तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम्येन त्वं ग्रहणं शत्रोर्गतो नान्येन वासव३८

शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितःपावितस्तेन यज्ञेन यास्यसि त्रिदिवं ततः३९

पुत्रश्च तव देवेन्द्र विनष्टो महारणेनीतः संनिहितश्चैव अर्यकेण महोदधौ४०

एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा वैष्णवम्पुनस्त्रिदिवमाक्रामदन्वशासच्च देवताः४१

एतदिन्द्रजितो राम बलं यत्कीर्तितं मयानिर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये किं पुनः४२

इति श्रीरामायणे उत्तरकाण्डे त्रिंशत्तमः सर्गः३०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved