॥ ॐ श्री गणपतये नमः ॥

३५ सर्गः

अपृच्छत ततो रामो दक्षिणाशालयं मुनिम्प्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत्

अतुलं बलमेताभ्यां वालिनो रावणस्य त्वेतौ हनुमद्वीर्यैः समाविति मतिर्मम

शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम्विक्रमश्च प्रभावश्च हनूमति कृतालयाः

दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम्समाश्वास्य कपीन्भूयो योजनानां शतं प्लुतः

धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथादृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा

सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजःएते हनुमता तत्र एकेन विनिपातिताः

भूयो बन्धाद्विमुक्तेन संभाषित्वा दशाननम्लङ्का भस्मीकृता तेन पावकेनेव मेदिनी

कालस्य शक्रस्य विष्णोर्वित्तपस्य कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः

एतस्य बाहुवीर्येण लङ्का सीता लक्ष्मणःप्राप्तो मया जयश्चैव राज्यं मित्राणि बान्धवाः

हनूमान्यदि मे स्याद्वानराधिपतेः सखाप्रवृत्तमपि को वेत्तुं जानक्याः शक्तिमान्भवेत्१०

किमर्थं वाली चैतेन सुग्रीवप्रियकाम्ययातदा वैरे समुत्पन्ने दग्धो वीरुधो यथा११

हि वेदितवान्मन्ये हनूमानात्मनो बलम्यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम्१२

एतन्मे भगवन्सर्वं हनूमति महामुनेविस्तरेण यथातत्त्वं कथयामरपूजित१३

राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततःहनूमतः समक्षं तमिदं वचनमब्रवीत्१४

सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः बले विद्यते तुल्यो गतौ मतौ परः१५

अमोघशापैः शापस्तु दत्तोऽस्य ऋषिभिः पुरा वेदिता बलं येन बली सन्नरिमर्दनः१६

बाल्येऽप्येतेन यत्कर्म कृतं राम महाबलतन्न वर्णयितुं शक्यमतिबालतयास्य ते१७

यदि वास्ति त्वभिप्रायस्तच्छ्रोतुं तव राघवसमाधाय मतिं राम निशामय वदाम्यहम्१८

सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतःयत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता१९

तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुताजनयामास तस्यां वै वायुरात्मजमुत्तमम्२०

शालिशूकसमाभासं प्रासूतेमं तदाञ्जनाफलान्याहर्तुकामा वै निष्क्रान्ता गहने चरा२१

एष मातुर्वियोगाच्च क्षुधया भृशार्दितःरुरोद शिशुरत्यर्थं शिशुः शरभराडिव२२

ततोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम्ददृशे फललोभाच्च उत्पपात रविं प्रति२३

बालार्काभिमुखो बालो बालार्क इव मूर्तिमान्ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः२४

एतस्मिन्प्लवमाने तु शिशुभावे हनूमतिदेवदानवसिद्धानां विस्मयः सुमहानभूत्२५

नाप्येवं वेगवान्वायुर्गरुडो मनस्तथायथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम्२६

यदि तावच्छिशोरस्य ईदृशौ गतिविक्रमौयौवनं बलमासाद्य कथं वेगो भविष्यति२७

तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनःसूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः२८

बहुयोजनसाहस्रं क्रमत्येष ततोऽम्बरम्पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः२९

शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरःकार्यं चात्र समायत्तमित्येवं ददाह सः३०

यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतःतमेव दिवसं राहुर्जिघृक्षति दिवाकरम्३१

अनेन परामृष्टो राम सूर्यरथोपरिअपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः३२

इन्द्रभवनं गत्वा सरोषः सिंहिकासुतःअब्रवीद्भ्रुकुटीं कृत्वा देवं देवगणैर्वृतम्३३

बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासवकिमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन्३४

अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतःअथान्यो राहुरासाद्य जग्राह सहसा रविम्३५

राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितःउत्पपातासनं हित्वा उद्वहन्काञ्चनस्रजम्३६

ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम्शृङ्गारकारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम्३७

इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम्प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता३८

अथातिरभसेनागाद्राहुरुत्सृज्य वासवम्अनेन वै दृष्ट आधावञ्शैलकूटवत्३९

ततः सूर्यं समुत्सृज्य राहुमेवमवेक्ष्य उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम्४०

उत्सृज्यार्कमिमं राम आधावन्तं प्लवंगमम्दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः४१

इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतःइन्द्र इन्द्रेति संत्रासान्मुहुर्मुहुरभाषत४२

राहोर्विक्रोशमानस्य प्रागेवालक्षितः स्वरःश्रुत्वेन्द्रोवाच मा भैषीरयमेनं निहन्म्यहम्४३

ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपिफलं तं हस्तिराजानमभिदुद्राव मारुतिः४४

तदास्य धावतो रूपमैरावतजिघृक्षयामुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम्४५

एवमाधावमानं तु नातिक्रुद्धः शचीपतिःहस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत्४६

ततो गिरौ पपातैष इन्द्रवज्राभिताडितःपतमानस्य चैतस्य वामो हनुरभज्यत४७

तस्मिंस्तु पतिते बाले वज्रताडनविह्वलेचुक्रोधेन्द्राय पवनः प्रजानामशिवाय ४८

विण्मूत्राशयमावृत्य प्रजास्वन्तर्गतः प्रभुःरुरोध सर्वभूतानि यथा वर्षाणि वासवः४९

वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतःसंधिभिर्भज्यमानानि काष्ठभूतानि जज्ञिरे५०

निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम्वायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाबभौ५१

ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाःप्रजापतिं समाधावन्नसुखार्ताः सुखैषिणः५२

ऊचुः प्राञ्जलयो देवा दरोदरनिभोदराःत्वया स्म भगवन्सृष्टाः प्रजानाथ चतुर्विधाः५३

त्वया दत्तोऽयमस्माकमायुषः पवनः पतिःसोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम५४

रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियःतस्मात्त्वां शरणं प्राप्ता वायुनोपहता विभो५५

वायुसंरोधजं दुःखमिदं नो नुद शत्रुहन्५६

एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिःकारणादिति तानुक्त्वा प्रजाः पुनरभाषत५७

यस्मिन्वः कारणे वायुश्चुक्रोध रुरोध प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम्५८

पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितःराहोर्वचनमाज्ञाय राज्ञा वः कोपितोऽनिलः५९

अशरीरः शरीरेषु वायुश्चरति पालयन्शरीरं हि विना वायुं समतां याति रेणुभिः६०

वायुः प्राणाः सुखं वायुर्वायुः सर्वमिदं जगत्वायुना संपरित्यक्तं सुखं विन्दते जगत्६१

अद्यैव परित्यक्तं वायुना जगदायुषाअद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः६२

तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि वःमा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम्६३

ततः प्रजाभिः सहितः प्रजापतिःसदेवगन्धर्वभुजंगगुह्यकःजगाम तत्रास्यति यत्र मारुतःसुतं सुरेन्द्राभिहतं प्रगृह्य सः६४

ततोऽर्कवैश्वानरकाञ्चनप्रभंसुतं तदोत्सङ्गगतं सदागतेःचतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवसिद्धर्षिभुजंगराक्षसः६५

इति श्रीरामायणे उत्तरकाण्डे पञ्चत्रिंशः सर्गः३५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved