॥ ॐ श्री गणपतये नमः ॥

४३ सर्गः

विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवःसमीपे द्वाःस्थमासीनमिदं वचनमब्रवीत्

शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम्भरतं महाबाहुं शत्रुघ्नं चापराजितम्

रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिःलक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः

उवाच तदा वाक्यं वर्धयित्वा कृताञ्जलिःद्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम्

बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम्प्राद्रवद्रथमारुह्य राघवस्य निवेशनम्

प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात्उवाच प्राञ्जलिर्वाक्यं राजा त्वां द्रष्टुमिच्छति

भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम्उत्पपातासनात्तूर्णं पद्भ्यामेव ततोऽगमत्

दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिःशत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद

एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छतिगतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः

श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम्शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः१०

कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियःअवाक्शिरा दीनमना द्वाःस्थं वचनमब्रवीत्११

प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितःएतेषु जीवितं मह्यमेते प्राणा बहिश्चराः१२

आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससःप्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः१३

ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथासंध्यागतमिवादित्यं प्रभया परिवर्जितम्१४

बाष्पपूर्णे नयने दृष्ट्वा रामस्य धीमतःहतशोभं यथा पद्मं मुखं वीक्ष्य तस्य ते१५

ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिःतस्थुः समाहिताः सर्वे रामश्चाश्रूण्यवर्तयत्१६

तान्परिष्वज्य बाहुभ्यामुत्थाप्य महाभुजःआसनेष्वाध्वमित्युक्त्वा ततो वाक्यं जगाद १७

भवन्तो मम सर्वस्वं भवन्तो मम जीवितम्भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः१८

भवन्तः कृतशास्त्रार्था बुद्धौ परिनिष्ठिताःसंभूय मदर्थोऽयमन्वेष्टव्यो नरेश्वराः१९

इति श्रीरामायणे उत्तरकाण्डे त्रिचत्वारिंशः सर्गः४३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved