॥ ॐ श्री गणपतये नमः ॥

४९ सर्गः

दृष्ट्वा तु मैथिलीं सीतामाश्रमं संप्रवेशिताम्संतापमकरोद्घोरं लक्ष्मणो दीनचेतनः

अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम्सीतासंतापजं दुःखं पश्य रामस्य धीमतः

अतो दुःखतरं किं नु राघवस्य भविष्यतिपत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम्

व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम्वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम्

यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैःनिहन्याद्राघवः क्रुद्धः दैवमनुवर्तते

पुरा मम पितुर्वाक्यैर्दण्डके विजने वनेउषितो नव वर्षाणि पञ्च चैव सुदारुणे

ततो दुःखतरं भूयः सीताया विप्रवासनम्पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे

को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरेमैथिलीं प्रति संप्राप्तः पौरैर्हीनार्थवादिभिः

एता बहुविधा वाचः श्रुत्वा लक्ष्मणभाषिताःसुमन्त्रः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच

संतापस्त्वया कार्यः सौमित्रे मैथिलीं प्रतिदृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः१०

भविष्यति दृढं रामो दुःखप्रायोऽल्पसौख्यवान्त्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथासंत्यजिष्यति धर्मात्मा कालेन महता महान्११

त्विदं त्वयि वक्तव्यं सौमित्रे भरतेऽपि वाराज्ञा वोऽव्याहृतं वाक्यं दुर्वासा यदुवाच १२

महाराजसमीपे मम चैव नरर्षभऋषिणा व्याहृतं वाक्यं वसिष्ठस्य संनिधौ१३

ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभःसूत क्वचिदेवं ते वक्तव्यं जनसंनिधौ१४

तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितःनैव जात्वनृतं कुर्यामिति मे सौम्य दर्शनम्१५

सर्वथा नास्त्यवक्तव्यं मया सौम्य तवाग्रतःयदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन१६

यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरातच्चाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम्१७

तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत्तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत्१८

इति श्रीरामायणे उत्तरकाण्डे एकोनपञ्चाशः सर्गः४९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved