ऋषेर्वचनमाज्ञाय रामः संध्यामुपासितुम्।उपाक्रामत्सरः पुण्यमप्सरोभिर्निषेवितम्॥ १
तत्रोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमाम्।आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः॥ २
अस्यागस्त्यो बहुगुणं फलमूलं तथौषधीः।शाकानि च पवित्राणि भोजनार्थमकल्पयत्॥ ३
स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम्।प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत्॥ ४
प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदमः।ऋषिं समभिचक्राम गमनाय रघूत्तमः॥ ५
अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसंभवम्।आपृच्छे त्वां गमिष्यामि मामनुज्ञातुमर्हसि॥ ६
धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनः।द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः॥ ७
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम्।उवाच परमप्रीतो धर्मनेत्रस्तपोधनः॥ ८
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम्।पावनः सर्वलोकानां त्वमेव रघुनन्दन॥ ९
मुहूर्तमपि राम त्वां ये नु पश्यन्ति केचन।पाविताः स्वर्गभूतास्ते पूज्यन्ते दिवि दैवतैः॥ १०
ये च त्वां घोरचक्षुर्भिरीक्षन्ते प्राणिनो भुवि।हतास्ते यमदण्डेन सद्यो निरयगामिनः॥ ११
गच्छ चारिष्टमव्यग्रः पन्थानमकुतोभयम्।प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान्॥ १२
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः।अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशीलिनम्॥ १३
अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान्।अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम्॥ १४
तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः।अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः॥ १५
स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते।शशी मेघसमीपस्थो यथा जलधरागमे॥ १६
ततोऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः।अयोध्यां प्राप्य काकुत्स्थो विमानादवरोहत॥ १७
ततो विसृज्य रुचिरं पुष्पकं कामगामिनम्।कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः॥ १८
लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ।ममागमनमाख्याय शब्दापय च मा चिरम्॥ १९
इति श्रीरामायणे उत्तरकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३