॥ ॐ श्री गणपतये नमः ॥

७८ सर्गः

तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदःप्रत्युवाच महातेजाः प्रहसन्राघवो वचः

एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मणवृत्रघातमशेषेण वाजिमेधफलं यत्

श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेःपुत्रो बाह्लीश्वरः श्रीमानिलो नाम सुधार्मिकः

राजा पृथिवीं सर्वां वशे कृत्वा महायशाःराज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत्

सुरैश्च परमोदारैर्दैतेयैश्च महासुरैःनागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः

पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दनअबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः

राजा तादृशो ह्यासीद्धर्मे वीर्ये निष्ठितःबुद्ध्या परमोदारो बाह्लीकानां महायशाः

प्रचक्रे महाबाहुर्मृगयां रुचिरे वनेचैत्रे मनोरमे मासि सभृत्यबलवाहनः

प्रजघ्ने नृपोऽरण्ये मृगाञ्शतसहस्रशःहत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः

नानामृगाणामयुतं वध्यमानं महात्मनायत्र जातो महासेनस्तं देशमुपचक्रमे१०

तस्मिंस्तु देवदेवेशः शैलराजसुतां हरःरमयामास दुर्धर्षैः सर्वैरनुचरैः सह११

कृत्वा स्त्रीभूतमात्मानमुमेशो गोपतिध्वजःदेव्याः प्रियचिकीर्षुः तस्मिन्पर्वतनिर्झरे१२

ये तत्र वनोद्देशे सत्त्वाः पुरुषवादिनःयच्च किंचन तत्सर्वं नारीसंज्ञं बभूव १३

एतस्मिन्नन्तरे राजा इलः कर्दमात्मजःनिघ्नन्मृगसहस्राणि तं देशमुपचक्रमे१४

दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम्आत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन१५

तस्य दुःखं महत्त्वासीद्दृष्ट्वात्मानं तथा गतम्उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत्१६

ततो देवं महात्मानं शितिकण्ठं कपर्दिनम्जगाम शरणं राजा सभृत्यबलवाहनः१७

ततः प्रहस्य वरदः सह देव्या महायशाःप्रजापतिसुतं वाक्यमुवाच वरदः स्वयम्१८

उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबलपुरुषत्वमृते सौम्य वरं वरय सुव्रत१९

ततः राजा शोकार्ताः प्रत्याख्यातो महात्मना जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात्२०

ततः शोकेन महता शैलराजसुतां नृपःप्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना२१

ईशे वराणां वरदे लोकानामसि भामिनिअमोघदर्शने देवि भजे सौम्ये नमोऽस्तु ते२२

हृद्गतं तस्य राजर्षेर्विज्ञाय हरसंनिधौप्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता२३

अर्धस्य देवो वरदो वरार्धस्य तथा ह्यहम्तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि२४

तदद्भुततमं श्रुत्वा देव्या वरमनुत्तमम्संप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत्२५

यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुविमासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः२६

ईप्सितं तस्य विज्ञाय देवी सुरुचिराननाप्रत्युवाच शुभं वाक्यमेवमेतद्भविष्यति२७

राजन्पुरुषभूतस्त्वं स्त्रीभावं स्मरिष्यसिस्त्रीभूतश्चापरं मासं स्मरिष्यसि पौरुषम्२८

एवं राजा पुरुषो मासं भूत्वाथ कार्दमिःत्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत्२९

इति श्रीरामायणे उत्तरकाण्डे अष्टासप्ततितमः सर्गः७८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved