॥ ॐ श्री गणपतये नमः ॥

९५ सर्गः

तथा तयोः कथयतोर्दुर्वासा भगवानृषिःरामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत्

सोऽभिगम्य सौमित्रिमुवाच ऋषिसत्तमःरामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्तते

मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहाअभिवाद्य महात्मानं वाक्यमेतदुवाच

किं कार्यं ब्रूहि भगवन्को वार्थः किं करोम्यहम्व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं वा प्रतीक्षताम्

तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतःउवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा

अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदयविषयं त्वां पुरं चैव शपिष्ये राघवं तथा

भरतं चैव सौमित्रे युष्माकं या संततिः हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि

तच्छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनःचिन्तयामास मनसा तस्य वाक्यस्य निश्चयम्

एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम्इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत्

लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श १०

सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसाकिं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत११

तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुःप्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल१२

अद्य वर्षसहस्रस्य समाप्तिर्मम राघवसोऽहं भोजनमिच्छामि यथासिद्धं तवानघ१३

तच्छ्रुत्वा वचनं रामो हर्षेण महतान्वितःभोजनं मुनिमुख्याय यथासिद्धमुपाहरत्१४

तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम्साधु रामेति संभाष्य स्वमाश्रममुपागमत्१५

तस्मिन्गते महातेजा राघवः प्रीतमानसःसंस्मृत्य कालवाक्यानि ततो दुःखमुपेयिवान्१६

दुःखेन सुसंतप्तः स्मृत्वा तद्घोरदर्शनम्अवान्मुखो दीनमना व्याहर्तुं शशाक १७

ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवःनैतदस्तीति चोक्त्वा तूष्णीमासीन्महायशाः१८

इति श्रीरामायणे उत्तरकाण्डे पञ्चनवतितमः सर्गः९५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved