पुरा वरदा नाम नगरी आसीत्। तस्याः समीपे आम्रकूटः पर्वतः आसीत्। तस्य पर्वतस्य शिखरे घण्टानादः नाम राक्षसः वसति इति लोकाः अवदन्। एकदा कश्चित् चोरः देवालयात् सुवर्णघण्टाम् अचोरयत्। नगररक्षकात् भयेन सः चोरः तत् पर्वतशिखरम् अगच्छत् गुहायाम् अविशत् च। तत्र कश्चित् व्याघ्रः तम् अपश्यत् अभक्षयत् च। चोरस्य हस्तात् पतितां घण्टां वानराः अपश्यन् अगृह्णन् च। एकः वानरः महता कौतुकेन तया घण्टया नादम् अकरोत्। अन्ये अपि वानराः क्रमशः तया घण्टया नादम् अकुर्वन्।
नगरे जनाः तं नादं कर्णाभ्याम् अशृण्वन् परस्परम् अवदन् च—‘शृणुत, घण्टानादः नाम राक्षसः मनुष्यं खादति, घण्टानादं च करोति’ इति। सर्वे नागरिकाः भयेन व्याकुलाः अभवन्। परम् एकः चतुरः मनुष्यः शङ्कया पीडितः अभवत् अचिन्तयत् च—“असमये पुनः पुनः च राक्षसः घण्टया किमर्थं नादं कुर्यात्। निश्चितं मर्कटाः एव घण्टया खेलन्ति” इति।
ततः सः चतुरः मनुष्यः नागरिकान् अवदत्—“अहं केन अपि उपायेन राक्षसं मारयामि तस्य घण्टाम् आनयामि च। किन्तु द्रव्येण विना उपाययोजना अशक्या एव” इति। तदा नागरिकाः तस्मै चतुराय विपुलं धनम् अयच्छन्।
धनेन सन्तुष्टः सः चतुरः वानराणां कृते कतिपयानि फलानि अगृह्णात्, पर्वतस्य शिखरम् अगच्छत्, तत्र सर्वाणि फलानि अक्षिपत् च। वानराः फलानि अपश्यन्, घण्टाम् अत्यजन्, फलानि अगृह्णन्, भक्षणार्थं दूरम् अधावन् च।
चतुरः घण्टया सह ग्रामम् अधावत्, नागरिकान् घण्टाम् अदर्शयत्, अवदत् च “मया सः घण्टानादः नाम राक्षसः महत्या युक्त्या केवलेन कष्टेन मारितः” इति। सर्वे नागरिकाः आनन्देन अनृत्यन्।