अकोलाग्रामे कश्चित् हरिः नाम कृषीवलः अवसत्। सः कृषिम् अकृषत्। परं सदैव तस्य कृषिः निष्फला अवर्तत। एकदा सूर्यस्य किरणैः संतप्तः सः वृक्षस्य तले छायायाम् उपविष्टः। तदा वृक्षस्य समीपे एव वल्मीकस्य उपरि सः महासर्पम् अपश्यत्। सर्वेषां सर्पात् भयं वर्तते। परं सः मनसि अचिन्तयत्— “असौ न सर्पः किन्तु कृषिदेवता। अहं तां कदापि न अपूजयम्। अतः कृषिः न फलति” इति।
सर्पाय दुग्धं रोचते इति चिन्तयित्वा सः पात्रे दुग्धं निधाय वल्मीकस्य समीपे अगच्छत् प्रार्थयत् च। “सर्पाय नमः। कृषिदेवतायै नमः। कृषिलक्ष्म्यै नमः” इति संप्रार्थ्य हरिः सर्पाय दुग्धम् अयच्छत् पुनः वृक्षस्य तलं प्रत्यागच्छत् च।
अहो आश्चर्यम्। वृक्षात् पञ्च पक्कानि मधुराणि फलानि अपतन्। वल्मीकात् एका सुवर्णमुद्रा उद्गच्छत् वृक्षस्य तलं च आगच्छत्।
सः कृषीवलः प्रसन्नेन मनसा पुनः पुनः प्रार्थयत्—“कृषिदेवताभ्यः नमः। सर्वेभ्यः देवेभ्यः नमः” इति। एवं प्रतिदिनं सः क्षेत्रं गच्छति, तत्र सर्पाय दुग्धं यच्छति, वृक्षात् पतितानि फलानि तथा वल्मीकात् उद्गतां सुवर्णमुद्रां गृह्णाति, गृहम् आगच्छति च।
एकदा सः कर्तव्यवशः ग्रामम् अगच्छत्। सर्पस्य पूजाकार्ये तेन पुत्रः नियुक्तः। पुत्रः सर्पाय दुग्धं यच्छति, आश्चर्येण पश्यति, वृक्षतले फलानि तथा वल्मीकात् उद्गतां सुवर्णमुद्राम् अपि पश्यति च। सः मनसि चिन्तयति।
“अस्मिन् वल्मीके प्रभूताः सुवर्णमुद्राः सन्ति। प्रतिदिनम् अत्र आगमनं प्रार्थनाकरणं वा मह्यं न रोचते। सर्पं हत्वा अहं ताः सर्वाः सुवर्णमुद्राः एकवारम् एव गृहीत्वा धनिकः भवामि” इति। एवं चिन्तयित्वा तेन सर्पस्य शीर्षे लगुडेन प्रहारः कृतः। तेन कुपितः सः सर्पः तं पुत्रं तथा दशति यथा सः तत्कालम् एव पञ्चत्वं गतः।