Narration: © हर्षदा मादिराजु/CC BY-SA
कस्मिंश्चित् नगरे कश्चित् भिक्षुकः वसति स्म। सः भिक्षया कांश्चित् सक्तून् अलभत। भिक्षार्जितैः सक्तुभिः सः घटम् अपूरयत्। तं च घटं नागदन्ते अवलम्ब्य तस्य अधः खट्वां निधाय सः एकदृष्ट्या घटम् अपश्यत्। एकदा खट्वायां शयितः सः अचिन्तयत्—अधुना अयं घटः सक्तुभिः परिपूर्णः। यदि दुर्भिक्षं भवेत् तर्हि अस्य विक्रयेण रूप्यकाणां शतं भवेत्। तेन रूप्यकशतेन अहम् अजाद्वयम् आनयामि। षड्भ्यः मासेभ्यः अनन्तरं बहवः अजाः भवेयुः। तेषां विक्रयेण प्रभूतं सुवर्णं विन्दामि। तेन विशालं गृहं रचयामि। अनन्तरं कः अपि धनिकः मम गृहम् आगच्छेत्, मह्यं रूपवतीं कन्यां च यच्छेत्। तस्यां मे पुत्रः जायेत। अहं तस्य गोविन्दः इति नाम कुर्याम्।
यदि मम गृहस्य समृद्धिं दृष्ट्वा कश्चन चोरः मम गृहम् आगमिष्यति तर्हि अहं तं पादप्रहारेण एवं ताडयेयम् इति उक्त्वा तेन तथा पादप्रहारः दत्तः यथा सः घटः भग्नः। तस्य मुखं च सक्तुभिः पाण्डुरम् अभवत्।