पान्थः — को भवान्?
वृक्षः — किमर्थं पृच्छसि?। किमर्थं प्रश्नेन माम् आयासयसि? किमर्थं स्वेन मार्गेण न गच्छसि?
पान्थः — अपि त्वं मम प्रश्नेन विषीदसि? तर्हि न पृच्छामि। न त्वां प्रश्नेन आयासयामि। स्वेन मार्गेण गच्छामि।
वृक्षः — न विषीदामि। अहं प्रयच्छामि तुभ्यम् उत्तरम्।
पान्थः — त्वं निगृूहसि दुःखं विषादं वा। त्वम् अलीकं वदसि न विषीदामि इति।
वृक्षः — मित्र, सत्यं विषीदामि। अहं दुःखम् अनुभवामि। अहं श्मशानवृक्षः भवामि।
पान्थः — किं तेन?
वृक्षः — अपि पश्यसि तं वटवृक्षम्?
पान्थः — अवश्यं पश्यामि।
वृक्षः — जनाः तस्य घनां छायाम् अभिलषन्ति।
पान्थः — अपि नाम तेन विषीदसि?
वृक्षः — न खलु स्वप्ने अपि तेन विषीदामि। अहम् अपि घनां छायां करोमि। परं जनाः ताम् न अभिलषन्ति।
पान्थः — किं तेन?
वृक्षः — किम् एवं वदसि? मम छाया अपि लोकानां न उपयुक्ता इति दुःखम् अनुभवामि।
पान्थः — अहो तव उपकारे तत्परता! वयं मनुष्याः स्वार्थेन तुष्यामः। त्वं पुनः परोपकारम् इच्छसि। त्वं परोपकारेण तुष्यसि। धन्यः त्वम्।
वृक्षः — सफलः अहम्।