॥ ॐ श्री गणपतये नमः ॥

पुनः त्वं मूषकः भव

कस्मिंश्चित् तपोवने एकः मुनिः वसतिएकदा सः स्नानार्थं नदीं गच्छतिस्नानात् अनन्तरं सः अर्घ्यं यच्छतितदा सः काकस्य मुखे मूषकं पश्यतिसः काकं प्रति पाषाणखण्डं प्रक्षिपतितेन मूषकः काकस्य मुखात् अधः पततिमुनिः तं मूषकं पालयतिएकदा मार्जारः तं मूषकं प्रति धावतिमूषकः भयेन मुनिं प्रति धावतिमुनिः तं भयकारणं पृच्छतियदा सः मूषकः वदति—“मार्जारः मम भयकारणम् अस्तिइति तदा मुनिः तं वदति—“त्वं मार्जारः भव, चिरं जीव, गच्छ, क्रीड इतितदनन्तरम् एकदा तं मार्जारं प्रति कुक्कुरः धावतिभीतः मार्जारः पुनः मुनिं प्रति धावति कथयति भयकारणम्तदा मुनिः पुनः भणति, ‘त्वं कुक्कुरः भव, चिरं जीव, गच्छ, खेल इतिपुनः एकदा तं कुक्कुरं प्रति व्याघ्रः धावतिसः कुक्कुरः पुनश्च मुनिं गच्छति भयकारणं वदति मुनिः अपि पुनश्च भणतित्वं व्याघ्रः भव, चिरं जीव, सर्वत्र निर्भय भ्रम, यथेष्टं सञ्चारं कुरु, गच्छ इति।’

अन्ये जनाः तं व्याघ्रं पश्यन्ति वदन्ति —‘एषः सत्यार्थेन व्याघ्रः किन्तु मुनेः मूषकः’। सः व्याघ्रः जनान् भणति—‘भोः भोः जनाः, अहं सत्यं व्याघ्रः एव अस्मि’। जनाः वदन्ति—“तावत् सत्यं मन्यामहे यावत् त्वं मुनिं भक्षयसिमुनिं भक्षयसत्यं व्याघ्रः भवइतिसः व्याघ्रः गर्जति, मुनेः भक्षणार्थं तं प्रति धावति मुनिः अन्तर्ज्ञानेन व्याघ्रस्य हेतुं जानाति तं वदति —‘हे व्याघ्र, मा गर्वं कुरु, मा बलं दर्शय, मा गर्ज, मा क्रूरं पश्य, गच्छ, चिरं जीव, किन्तु पुनः मूषकः भवइतिसः व्याघ्रः पुनः मूषकः भवति


"संस्कृतवाग्विलासः १". 2013. p 13कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयः