॥ ॐ श्री गणपतये नमः ॥

स्तुतिप्रियः काकः

एकदा कश्चित् काकः मांसखण्डं लभतेसः तं मुखे धारयति, तुङ्गवृक्षस्य शाखायाम् उपविशति कश्चित् धूर्तः जम्बूकः तं पश्यति चिन्तयति —‘काकमुखे यद् मांसखण्डं वर्तते तद् अहं कथं लभेएवं करोमिअहं तं स्तौमि’। तदनन्तरं सः शृगालः वृक्षस्य तलं गच्छति, काकं पश्यति, वदति — “मित्र काक, अहं सत्यं भणामि यद् त्वम् अतीव सुन्दरः असितव सदृशम् अन्यं खगं अहं पश्यामिपश्यामि तव रमणीयान् पक्षान्अवलोकयामि तव रुचिरां श्यामलां कान्तिम्अनुभवामि तव अवयवानां सुकुमारताम्त्वं निपुणं नृत्यसित्वं मधुरं गायसिजानामि तव औदार्यम्त्वं मम इच्छां निश्चयेन पूरयसि इति अहं मन्ये। ‘तव गानं शृणोमि धन्यः भवामिइति अहम् इच्छामि”। काकः स्तुतिं शृणोति गर्विष्ठः भवतिजम्बूकस्य कपटं सः जानातियदा सः गानम् आरभते तदा मांसखण्डः तरुतले पततिजम्बूकः तत् गृह्णाति दूरं पलायते काकः केवलं पुनः कर्कशम् आरटति


"संस्कृतवाग्विलासः १". 2013. p 9कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयः