यवतमालनगरे केचन त्रयः बान्धवाः वसन्ति स्म। ते गुरुगृहं गत्वा ज्ञानं प्राप्य विद्यां सम्पाद्य पण्डिताः भवितुम् इच्छन्ति स्म। एवं गुरुगृहे कानिचिद् वर्षाणि स्थित्वा ते विद्यार्जनम् अकुर्वन्। किन्तु ते पुस्तकस्थाम् एव विद्याम् अपठन्। केवलं पुस्तकस्थां विद्यां ज्ञात्वा कथं ते पण्डिताः भवेयुः? यतः व्यवहारस्य ज्ञानं विना ये वर्तन्ते ते विनाशं गच्छन्ति।
एवं ते त्रयः अपि पण्डिताः गुरुगृहे विद्यां परिसमाप्य स्वगृहं गन्तुं प्रस्थिताः। अथ ते किमपि वनम् आगताः। तत्र गुरुगृहात् समानीतं पाथेयं भुक्त्वा जलं पीत्वा पुनश्च मार्गम् आक्रमितुं ते प्रस्थिताः। तत्र एव कस्यचित् सिंहस्य अस्थीनि दुष्ट्वा तेषाम् एकतमेन स्वज्ञानेन तानि सर्वाणि संचित्य तैः सिंहः निर्मितः। अथ अपरः तद् विलोक्य स्वज्ञानस्य प्रयोगं कर्तुं समुत्सुकः अभवत् सः मन्त्रं जप्त्वा तस्मिन् सिंहे प्राणान् प्रेरयितुं समुत्सुकः अभवत्। अथ तृतीयः तद् अवलोक्य जीवति सिंहे स्वविनाशम् अपश्यत्। सः अब्रवीत्—“अहम् इमं वृक्षम् आरोहामि तदनन्तरं त्वम् इमं सिंहं जीवय” इति। अथ द्वितीयः यावत् मन्त्रं पठित्वा तस्मिन् सिंहे प्राणान् आरोपयति, सिंहः च गर्जित्वा तं भक्षयति तावत् प्रथमः पलायते।