एकदा आइन्स्टाइन्-महोदयः कस्मिंश्चित् मुख्यमेलने व्याख्यानं दातुम् अवकाशं प्राप्तवान्। तत्समये वृष्ट्या बहिः अत्यन्तं शैत्यं गहनः अन्धकारः च आसीत्। यानचालकः वाहनं शुद्धीकृत्य यदा द्वारम् उद्घाटितवान् तदा एव आइन्स्टाइन्-महोदयः गृहसोपानेषु अवतरन् आसीत्।
वाहनं चालयन्तं चालकं आइन्स्टाइन्-महोदयः मृदुस्वरेण उक्तवान् “अहोरात्रं भौतिकशास्त्रेषु एव अहं निमग्नः अस्मि। सर्वेषु मेलनेषु सभायां न कदापि अन्यां कल्पनां वदामि, एतेन मम जामिता जाता।” इति। वस्तुतः सः कदाचित् एकस्मिन् दिन दिने एव पञ्च षट् वा व्याख्यानि दत्त्वा श्रान्तः आसीत्।
चालकेन विज्ञानशास्त्रं न अधीतं परन्तु तस्य बुद्धिः अतीव तीक्ष्णा, स्मरणशक्तिः अनुपमा च आसीत्। चालकः प्रत्युत्तरितवान् “स्वामिन्! आम्! भवता यदुक्तं तदुचितम्। मया सभायां अन्तिमासन्दे उपविश्य बहुवारं भवतः भाषणं श्रुतम्। यद्यपि अस्मिन् शास्त्रे मम अवगमनं न समीचीनं तथापि केवलं श्रवणमात्रेण अहम् एतस्य विज्ञानस्य वक्ता भवितुम् अर्हामि। वैज्ञानिकरुपेण यदि अहं भवदीयं व्याख्यानं श्रावयामि तर्हि तत्र का वा हानिः?” इति।
आइन्स्टाइन्-महोदयः स्मयमानः उत्साहेन उक्तवान् “अये! एवं... तथैव आवां कुर्वः। वस्त्रपरिवर्तनं करवाव। मदीयं कृष्णवर्णं शिरस्त्रम् अपि गृह्णातु। यत्र आवां गच्छन्तौ स्वः, तत्र कस्यापि मम मुखपरिचयः नास्ति अतः अयं मुख्यविषयः।” इति।
किञ्चित्कालानन्तरं यदा उभावपि प्राप्तवन्तौ तदा अधिकः जनसम्मर्दः कुतूहलतया उपविष्टः आसीत्। प्राध्यापकवेषं धृत्वा वाहनचालकः वेदिकाम् आरुह्य भाषणम् आरभत। कृष्णफलके गणितचिह्वानि उत्तमरीत्या आइन्स्टाइन्-महोदयवत् तेन लिखितानि। स्पष्टतया सर्वान् मुख्यान् अंशान् श्रावितवान्। शृण्वतां जनानां अवधानेन तत्र सूचिपातशब्दोपि न श्रुतः। भाषणसमाप्तौ यदा प्रक्षकैः उच्चैः यावत् करताडनं कृतं तदा आइन्स्टाइन्-महोदयः सन्तोषम् अनुभूतवान्।
प्रश्नकालः आगतः। आसन्देषु उपविशत्सु वैज्ञानिकेषु एकः चतुरः कश्चन मध्यवयस्कः पुरुषः पर्यालोच्य स्वसमस्यां परिहर्तुं हस्तम् उन्नीय प्रश्नं पृष्टवान्। तस्य कठिनं प्रश्नं श्रुत्वा आइन्स्टाइन्-महोदयस्य हृदयस्पन्दनं प्रश्नभीत्या तीव्रतरं सञ्जातम्। “एषः किं करिष्यति इदानीम्? अस्मदीयां क्रीडां सर्वे ज्ञास्यन्ति।” इति चिन्तितवान्।
परन्तु चतुरः चालकः मन्दहासं प्रकटयन् उक्तवान्, “श्रीमन् कः क्लेशः अत्र? भवतः प्रश्नः सरलः अपि च सामान्यः। प्रकोष्ठस्य पृष्ठभागे उपविष्टः मम यान चालकः अपि अस्य उत्तरं दातुं शक्नोति। चालकमहोदय! कृपया अस्मिन् विषये कञ्चित् प्रकाशं ददातु।” इति।
एवं रीत्या सः चालकः स्वचातुर्यवशात् आत्मानम् आइन्स्टाइन्-महोदयस्य मानं च रक्षितवान्।