॥ ॐ श्री गणपतये नमः ॥

वीराधिवीरःअनुराधा अनन्तः

मगधस्य राजा श्रुतकीर्तिः कदाचित् हेमपुरराज्यस्य उपरि आक्रमणं कृतवान्किन्तु युद्धे पराजितः सः पलायितः

हेमपुरराज्यस्य राजा स्वकीयस्य जयस्य कारणीभूतान् सैनिकान् अधिकारिणः बहुप्रकारैः सत्कृतवान्

विजयनामकः कश्चित् सैनिकः रणरङ्गे वीरावेशेन युद्धं कृतवान्प्रतिस्पर्धिनां बहूनां सैनिकानां हस्तौ पादौ कर्तितवान्

एतत् श्रुत्वा तद्ग्रामीणाः जनाः विजयं पुष्पमालाभिः अलङ्कृत्य वीथ्यां शोभायात्रां कृतवन्तःविजयः ग्रामीणानाम् एतादृशं सत्कारं महता आनन्देन अन्वभवत्

तदा जनसमूहतः काचित् अग्रे गत्वा विजयं पृष्टवतीविजय! भवान् युद्धे शत्रूणां केवलं हस्तपादच्छेदनम् एव अकरोत्शिरच्छेदनं किमर्थं कृतवान्?” इति

तदा विजयः क्षणकालं किमपि चिन्तयति इव मौनं स्थितवान्अनन्तरम् उक्तवान्तादृशः अवकाशः मया प्राप्तःयतः शिरांसि पूर्वमेव छिन्नानि आसन्इति


MSC YT. 2023-02-17लेखकः/मद्रपुरी संस्कृत महाविद्यालयः