॥ ॐ श्री गणपतये नमः ॥

द्वयोर्बालयोश्चूततरोश्च कथामण्डिकल् रामशास्त्री

धैर्यात्सुखमवाप्नोति धैर्येणापन्निवार्यतेधैर्येण प्राप्यते लक्ष्मीः धैर्यं सर्वत्र साधनम्

कस्मिंश्चित् ग्रामे कश्चन बालः आसीत् कञ्चिदारामं प्राप्य तत्र कस्य चित् रसालवृक्षस्योपरि उत्तमं फलमपश्यत्तदपचित्य भक्षयेयमित्यपेक्ष्य अपचेतुमयतततं वृक्षं परितः कण्टकवृतिर्वर्तते स्म तस्याः भीत्वा फलमनपचित्यैव गृहं जगामतदा अन्यो बालस्तत्फलमालोक्य परितस्स्थितायाः कण्टकवृतेरसन्त्रास्य तं वृक्षमारुह्य फलमपचित्याभक्षयत्तस्माद्धैर्यवतामेव कार्यसिद्धिर्भवति


"संस्कृतकथासप्ततिः". 1914. p 1CC0. No rights reserved