॥ ॐ श्री गणपतये नमः ॥

पण्डितस्य तत्पुत्रयोश्च कथामण्डिकल् रामशास्त्री

विद्या ददाति विनयं विनयाद्याति पात्रताम्पात्रत्वाद्धनमाप्नोति धनाद्धमं ततस्सुखम्

काश्यां कश्चिद्विद्वान् अवर्तततस्य द्वौ पुत्रावास्ताम् ज्येष्ठपुत्राय स्वीयं सर्वं धनमपि ददौकनिष्ठं सम्यग्विद्यानिपुणमकरोत्ज्यायान् केषुचिद्दिनेषु सर्वस्वमपि व्यययित्वा दरिद्रोऽभवत्कनीयान् स्वपाण्डित्येन बहुलं द्रव्यं सम्पाद्य सुखेनावर्तततस्माद्विद्यावानेव सुखी भवति


"संस्कृतकथासप्ततिः". 1914. p 1CC0. No rights reserved