लक्षणो नाम देशः। तत्र लावणं नाम प्रसिद्धं नगरम्। तत्र एकदा चोराः लुण्टकाः च सुर्यास्तानन्तरं नगरमार्गे सञ्चरतः प्रजाजनान् पीडयन्तः तेषां धनानि बलात् अपहर्तुं च आरब्धवन्तः। अतः तादृशी परिस्थितिः उत्पन्ना यत् प्रदोषे अपि नगरमार्गे जनानां स्वेच्छया विहारः दुष्करः जातः। तत्र नगरपालकः विरूपाक्षो नाम। तस्य समीपे नगरवासिनः विषयं निवेदितवन्तः। परस्मिन् दिने एव सः आज्ञापितवान्— ‘नगरमार्गे सूर्यास्तानन्तरं यः कोऽपि पर्यटनं न कुर्यात्’ इति।
अनया आज्ञया सायङ्कालानन्तरं नगर-जीवनमेव स्थगितं जातम्। वणिजां तु बहुनष्टम् अभवत्। अतः केचन नगरप्रमुखाः राजधानीं गत्वा महाराजाय सविवरं वृत्तान्तं निवेदितवन्तः।
राजा मन्त्रिद्वारा पत्रमेकं नगरपालक-विरूपाक्षाय लेखितवान् “प्रजाजन निषेधाज्ञा युक्ता एव। यतः दुष्टाणां कारणेन प्रजानां क्लेशः मा भवतु इति हि आज्ञायाः सदुद्देशः। किन्तु न्यायः सदा निर्बधः भवेत्। अन्यायः निर्बन्धे तिष्ठेत्। इदानीं तु निरपराधिषु प्रजाजनेषु निषेधाज्ञा विहिता। सा च आज्ञा अपराधिषु यथा अन्विता भवति तथा-परिवर्तनीया” इति।
विरूपाक्षः इदं पत्रं पठित्वा आत्मनः दोषं विज्ञातवान्। ततः शीघ्रम् एव अपराधिनां ग्रहणार्थं समुचितां व्यवस्थां कृतवान्। येन च नगरे सर्वत्र शान्तिः निर्भयता च पुनः उदिता।