॥ ॐ श्री गणपतये नमः ॥

स्थूलः वामनः श्वेता

कश्चित् ग्रामःतत्र रामिलः नाम कश्चित् श्रेष्ठी वसति स्मतस्य पत्नी जीवम्मा इतितयोः दम्पत्योः सोमः नाम एकः एव पुत्रःमातापित्रोः परमप्रीतिपात्रं सोमःसः यत् यत् इच्छति तत् सर्वं तस्य कृते दातुं रामिलस्य प्रयत्नःजीवम्मा अपि अस्मिन् विषये पुत्रपक्षपातिनी एव आसीत्अतः सोमस्य बुद्धेः अपेक्षया देहः सम्यक् वर्धितःगच्छता कालेन सोमः तरुणः अभवत्तस्य वयः पञ्चविंशतिवर्षाणितस्मिन् वयसि तस्य शरीरं बहुस्थूलम् अभवत्प्रतिदिनं स्थूलता वर्धते स्मदिने दिने तस्य शरीरं तथा वर्धितं यत् दृष्ट्वा तस्य अग्रे एव सर्वे हसन्ति स्म। ‘आह, गजराजविराजितमन्दगतिःइति एकः तं दृष्ट्वा उपहसतिअन्यःअये कथं पर्वतः अपि इतस्ततः चलतिइति परिहसतियदा सोमः "" उपहासवचनानि शृणोति तदा बहु खिन्नः भवतितानि एव निन्दावाक्यानि तस्य कर्णयोः पुनः पुनः निनदन्तिकदाचित् सः बहुव्यग्रः अभवत्

अनन्तरं सोमः वैद्यं दृष्ट्वा पृष्टवान्—“मम शरीरं कथं कृशं भवेत्? उपायं कथयतुइति। “क्रोशयुगं प्रतिदिनं धावतुमध्ये कुत्रापि तिष्ठतुएकस्मिन् मासे एव भवान् कृशः भविष्यतिइति वैद्यः उक्तवान्

क्रोशयुगं धावनं नाम सार्वजनिकमार्गे एव करणीयम्तथापि सोमः तस्मिन् मार्गे एव धावितुम् आरब्धवान्मार्गे बहवः जनाः अभिमुखं मिलन्ति स्मसोमस्य धावनं दृष्ट्वा केचित् जनाः हसितवन्तःहसतां मध्ये एकः तु स्वकुतूहलं निरोद्धुम् अशक्तः सोमं पृष्टवान् एव—“किमर्थं धावति?” इतिअपि सोमेन सह धावन् एव धावनकारणम् अपि ज्ञातवान्परस्मिन् दिने अपि सोमः धावितुम् आरब्धवान्मार्गे ह्यस्तन-अपेक्षया अद्य अधिकाः जनाः आसन्। “मम धावनं द्रष्टुम् एव एते स्थितवन्तःइति सोमः भावितवान्

अतः लज्जितः सोमः चिन्तितवान्—“सूर्योदयतः पूर्वमेव धावनं कर्तव्यम्इतिअनन्तरं सोमः तथैव कृतवान्तदा द्वित्राः जनाः मार्गे दृश्यन्ते स्महासं कुर्वतां सङ्ख्या तु न्यूना अभवत्, किन्तु उषःकाले शय्यां त्यक्त्वा उत्थातुं सोमस्य बहुसङ्कटम् अभवत्यतः उषःकाले सुमधुरां निद्रां त्यक्तुं तस्य मनः इच्छति स्म

अतः पुनः वैद्यस्य समीपं गत्वा सोमः प्रार्थितवान्—‘श्रीमन्! अहं धावितुं समर्थःइतोऽपि सरलम् उपायं कृपया सूचयतुइतिवैद्यः उक्तवान्—“बहवः उपायाः सन्तिएषः एकः सरलः उपायःप्रतिदिनम् एकचषकं क्षीरं तथा एकचषकं फलरसं पिबतुअपि निम्बुकफलमितस्य तक्रान्नस्य भोजनं स्वीकरोतुएवं परिमिताहारेण मासद्वये एव भवान् कृशः भविष्यतिइति

वैद्येन यथा उक्तं तथा सोमः दिनद्वयं कृतवान्बहु आयासेन सः श्रान्तः अभवत्खाद्यार्थं जिह्वा स्रवति स्मयद्यपि शरीरं किञ्चिदिव कृशम् अभवत्तथापि जिह्वाचापल्यं निरोद्धुम् असमर्थः सोमः तृतीये दिने एव बहु भुक्तवान्पुनः तस्य शरीरं पुर्ववत् पूर्ववत् स्थूलम् अभवत्

पुनः वैद्यस्य समीपं गत्वा सोमः उक्तवान्भवता यथा उक्तं तथैव दिनद्वयं मिताहारं सेवितवान्शरीरमपि किञ्चित् कृशम् अभवत्किन्तु तृतीये दिने बुभुक्षां सोढुम् असमर्थः बहु भुक्तवान्पुनः शरीरं स्थूलम् अभवत्एवं चेत् कथम् अहं सुखेन जीवामि? कृशः भवितुं तथा कृशीभूतं शरीरं रक्षितुं कति दिनानि मिताहारः सेवनीयः? कृपया सूचयतुइति

मिताहारः कति दिनानि? इति? अत्र शृणोतु, यदा भवान् कृशः भवति अनन्तरम् अपि यावज्जीवं भवता मिताहारः एव सेवनीयःयदा यथापूर्वं भोजनं करोति, तदा भवतः शरीरं स्थूलं भवेत् एवभवतः शरीरस्य एषः स्वभावःइति वैद्यः उक्तवान्

यावज्जीवं मिताहारः चेत् अल्पकाले एव मम मरणं भवेत्अतः मिताहारः दुःसाध्यः एवअतः उपायान्तरं कृपया सूचयतुइति सोमः प्रार्थितवान्

मम समीपे औषधं तु अस्तितत् औषधं स्वीकरोतुमिताहारस्य क्लेशः नास्तिइतिउक्त्वा वैद्यः दश घुटिकाः दत्तवान्। “प्रतिदिनम् एकैकां घुटिकां स्वीकरोतुइत्यपि सूचितवान्

परस्मिन् दिने सोमः एकां घुटिकां सेवितवान्कण्ठे तापः जिह्वायां ज्वलनं उत्पन्नम्तद् दिने सः किमपि खादितुं समर्थः अभवत्तथापि तस्य बुभुक्षा जातायतः घुटिका आहारगुणयुक्ता आसीत्अन्यपीडा तु आसीत्परदिने जिह्वातापः अपि न्यून इव अनुभूतःकिन्तु यदा घुटिका स्वीकृता तदा पुनरपि जिह्वा ज्वलितुम् आरब्धातद्दिने अपि किमपि खादितवान्असन्तृप्तेः एतत्कारणे सत्यपि सर्वाः घुटिकाः स्वीकरणीयाः इति निश्चितवान्यतः बुभुक्षा पीडा तु आसीत् किल?

तस्मिन् दिने रात्रौ सोमस्य गृहं कश्चित् वामनः पथिकः आगतवान्यद्यपि वामनः ग्रामान्तरं प्रति प्रस्थितः, तथापि महत्या वृष्ट्या गन्तुम् असमर्थः सोमस्य गृहम् आश्रितवान्सोमः अपि तस्य सत्कारं कृत्वा भोजनं कारितवान्किन्तु सः अतिथिना सह भोजनं कृतवान्। “श्रीमन्! भवान् उदारःएतादृशं सत्कारम् आतिथ्यं कुत्रापि अहं अनुभूतवान्किन्तु भवान् किमर्थं मया सह भोजनं कृतवान् इत्येव मम खेदःइति वामनः उक्तवान्

एतत् श्रुत्वा सोमः स्वीयां सर्वां कथां सविस्तारम् उक्तवान्तत् श्रुत्वायद्यपि भवतः एषा अवस्था अस्ति, तथापि औषधसेवनेन भवान् कृशः भवत्येवकिन्तु मम दुरवस्थां पश्यतुमाम् उन्नतशरीरिणं कर्तुं किमपि औषधं नास्ति एवसर्वे अपि मम वामनशरीरं दृष्ट्वा हसन्तिअतः एतदर्थं किं वा कर्तुं शक्यम्?” इति वामनः पृष्टवान्। “सत्यं, मम अपेक्षया भवतः स्थितिः अतीव शोचनीयाइति सोमः अनुकम्पया उक्तवान्

एतत् श्रुत्वा वामनः हसन् उक्तवान्—“मम स्थितिः शोचनीयाकिन्तु भवतः स्थितिः एव परमशोचनीयाइति। “एतत् कथं भोः?” इति अत्याश्चर्येण सोमः पृष्टवान्

यद्यपि भवान् स्थूलः, तथापि तेन का हानिः? किं दुःखम्? सर्वमपि कार्यं सुखेनैव भवान् करोतिकिन्तु जनाः हसन्ति इति भवान् कृशः भवितुं परिश्रमं वहतिएवं भवन्तं दृष्ट्वा हसतां कृते एव भवान् परिश्रमं वहतिएषा परमशोचनीया स्थितिः भवतः एव, ममइति वामनः उक्तवान्। “एवं तर्हि भवन्तं दृष्ट्वा कश्चित् हसति चेत् भवान् किं सङ्कटं अनुभवति?” इति पुनः सोमः पृष्टवान्

श्रीमन्!! अहम् एकं प्रश्नं पृच्छामिनिर्दाक्षिण्यं कथयतुमम आकृतिं दृष्ट्वा यथा अन्ये हसन्ति तथैव भवान् अपि हसति किल? मम पुरतः हसति इति तु अन्यत्इति उक्त्वा वामनः तस्य उत्तरं निरीक्षितवान्

सोमः तु तस्य वचनं सत्यम् एव इति अङ्गीकृतवान्वामनः पृष्टवान्—“भवन्तं दृष्ट्वा हसतां मध्ये अहमपि एकः इत्यपि सत्यं किल?”

तदपि सत्यमेवभवतः आकृतिं दृष्ट्वा अहं हसामिमम आकृतिं दृष्ट्वा भवान् हसतिएषः मनुष्यस्य स्वभावःइति सोमः उक्तवान्

अत्रैव यथार्थः विषयः अस्तिअत्र मम वचनं शृणोतुद्वयोरपि समस्या एका एवयः कोऽपि भवन्तं दृष्ट्वा यदि हसति तदा भवन्तं माम् इति भावयतुमां दृष्ट्वा कश्चित् हसति चेत् भवानेव इति अहं भावयामितदा का व्यथा?” इति वामनः सूचनां दत्तवान्

वामनस्य वचने निश्चयेन सत्यांशः प्रतीयते एवमम आरोग्यं समीचीनम् एव अस्तियः कोऽपि हसति इति मम शरीरं किमर्थं वा क्लेशयामि? आहारस्य पानीयस्य इच्छा बलात्कारेण किमर्थं निरोधनीया?” इति सोमः चिन्तितवान्

अनन्तरं वामनं नमस्कृत्य उक्तवान्श्रीमन्! भवतः आतिथ्यं कृत्वा अहं धन्यःभवान् महाज्ञानी इव मम कृते उपदेशं कृतवान्इतः परं मम समस्या एव नास्तिइति

अनन्तरं यद्यपि सोमस्य स्थूलता क्षीणतां गता, तथापि तं दृष्ट्वा हसतां सङ्ख्या क्षीणतां गताउपहासपात्रस्यैव यदि मनसि खेदः भवति तर्हि हसताम् अपि हसितुम् इच्छा भवतियदि कश्चित् हसति चेत् तस्यैव मनः खिन्नं भवति


संस्कृत चन्दमामा. 1984-04. p 7Chandamama India Limited