॥ ॐ श्री गणपतये नमः ॥

सूक्ष्मग्राहीदिव्या

पूर्वसमुद्रतीरे पुरन्दरनगरं नाम वाणिज्यकेन्द्रम् आसीत्तस्मिन् पुरन्दरनगरे चन्द्रनागः इति वणिक् आसीत्सः पूर्वसमुद्रे द्वीपेषु वणिज्यं करोति स्मसः महान् व्यापारी आसीत्स्वबुद्धिकौशल्यबलेन एव बहु धनिकः जातःतस्य समीपे अनेके कर्मकराः कार्यं कुर्वन्ति स्मसः यं कमपि पुरुषं कार्यार्थं स्वीकरणात् पूर्वं तस्य चातुर्यं सम्यक् परीक्ष्य एव स्वीकरोति स्मवस्तूनाम् आयातनिर्यातकार्ये साहाय्यार्थं तस्य एकः समर्थः साहाय्यकः अपेक्षितः आसीत्एतं विषयं सः स्वमित्राणां वणिजां समीपे उक्तवान्तेषु एकः स्नेहितः चन्द्रनागसमीपं युवकद्वयं प्रेषितवान्सूचितवान् —“एतौ उभौ अपि विश्वासपात्रे एवअपेक्षितम् एकं स्वीकरोतुइतितयोः एकस्य नाम विशाखः, अपरस्य नाम आनन्दः

चन्द्रनागः प्रथमम् आनन्दं समुद्रतीरे स्थितं स्व-भाण्डागारं नीतवान्तत्र अनेकाः काष्टपेटिकाः इतस्ततः पतिताः आसन्चन्द्रनागः आनन्दस्य कृते ताः पेटिकाः प्रदर्शयन् उक्तवान्—“पश्यतु, एतासु पेटिकासु रजतकांस्यादि-निर्मितानि अन्यान्यवस्तूनि सन्तिएतानि वस्तूनि अहं चन्द्रपुरवणिजा क्रीतवान्एतत्सर्वं यावच्छीघ्रं नौकाद्वारा पूर्वराज्येभ्यः प्रेषणीयम् अस्तिसद्यःकाले एताः पेटिकाः भाण्डागारे व्यवस्थितं स्थापनीयाःइति

अनन्तरं चन्द्रनागः समीपस्थितान् चतुरः पुरुषान् आहूतवान्तान् प्रदर्शयन् आनन्दम् उक्तवान्—“एते चन्द्रपुरवणिजः जनाःएते एव एताः पेटिकाः आनीतवन्तःएते समीपे दृश्यमाने प्रकोष्ठे पेटिकाः स्थापयन्तिप्रकोष्ठे अस्मदीयः एकः भवतिसः एताः पेटिकाः सुव्यवस्थित स्थापयतिभवान् तु तत्रैव स्थित्वा पेटिकानां गणनां स्वीकृत्य लिखित्वा, मम समीपं प्रेषयतुइतिततः निर्गतवान्

आनन्दः चन्द्रनागवचनानुसारं स्वकर्तव्यं कृतवान्ते चत्वारः महता श्रमेण पेटिकाः आनयन्ति स्मप्रकोष्ठस्थः चन्द्रनागपक्षीयः पुरुषः विनायासं ताः उन्नीय एकस्याः उपरि एकां स्थापयति स्म

आनन्दः पेटिकाः गणयन् एतत्सर्वं परिशीलयति स्मकार्यसमाप्तेः अनन्तरम् आनन्दः चन्द्रनागसमीपं गत्वा उक्तवान्—“सर्वाः पेटिकाः सुव्यवस्थितं स्थापिताःआहत्य दशाधिकशतं पेटिकाः सन्तिइतिगणनाचीटिकां दत्तवान्चन्द्रनागः चीटिकाम् एकवारं परिशील्य उक्तवान्—“अस्तु कार्यार्थं स्वीकरणीयः चेत् दिनद्वयानन्तरं भवन्तं सूचयामिइतिआनन्दः ततः निर्गतः

अपरस्मिन् दिने चन्द्रनागः विशाखम् अन्यत् भाण्डागारं नीतवान्तत्र अव्यवस्थितं स्थिताः पेटिकाः प्रदर्श्य आनन्दाय यथा उक्तं तथैव उक्त्वा निर्गतःतत्रापि पेटिकाः आनीतवन्तः चत्वारः कर्मकराः प्रकोष्ठे चन्द्रनागीयः पुरुषः आसन्

भाण्डागारे पेटिकाः गणयतः विशाखस्य एकः सन्देहः समुत्पन्नःचतुर्भिः पुरुषैः महता श्रमेण आनीयमानां पेटिकां चन्द्रनागीयपुरुषः निरायासम् उन्नीय एकस्याः उपरि अपरां स्थापयतिसः बलाढ्यः भीमकायः अपि एतत् सर्वं विशाखः सूक्ष्मं परिशीलयति स्मयां पेटिकां महताश्रमेण चत्वारः आनयन्ति तां पेटिकां विनायासेन एकः एव स्थापयति किल? तर्हि पेटिकासु भारवस्तु किमपि स्यात्एते चन्द्रपुरवणिजः जनाः केवलं अभिनयं कुर्वन्ति वा? अत्र किमपि रहस्यं अस्तीति प्रतिभातिपेटिकासु रजत-कांस्यादीनि वस्तूनि सन्ति इति उक्तम्तत् असत्यं स्यात्अयं विषयः चन्द्रनागस्य कृते अवश्वं अवश्यं वक्तव्यः इति निश्चितवान्

कार्यसमाप्तेः अनन्तरं विशाखः चन्द्रनागसमीपं गत्वा उक्तवान्—“श्रीमन्! पेटिकाः दशाधिकशतं सन्तिमम तु एकः संशयः।. चन्द्रपुरवणिजा सह भवतः सम्बन्धः बहुकालतः स्यात्सः विश्वासार्हः अपि स्यात्तदहं जानामिकिन्तु इदानीं तस्य प्रामाणिकतायां मम सन्देहः अस्तिवस्तुस्थितिकथनं मम कर्तव्यम्...”

किमर्थं सन्देहः आगतः?” चन्द्रनागः पृष्टवान्

तासु पेटिकासु रजतकांस्यादिनिर्मितानि वस्तूनि सन्ति इति भवान् उक्तवान्किन्तु अत्र वञ्चना स्यात् इति मम मतिःपेटिकाः आनीतवन्तः चत्वारः पुरुषाः तदीयाः किल? ते पेटिकायाः उन्नयने श्रमम् अभिनयन्तिअन्यथा अस्मदीयः पुरुषः कथम् एकाकी विनायासं पेरिकाः उन्नेतुं समर्थः? पेटिकासु लोहवस्तूनि सन्तिबहुशः तृणसदृशानि लघुवस्तूति स्युःअतः इदानीम् एव भवता भाण्डागारं गत्वा पेटिकाः परीक्षणीयाःपुनः यदाकदाचित् वञ्चना ज्ञाता चेदपि सः वणिक् निराकुर्यात् किल?” इति

एतत्वचनं श्रुत्वा चन्द्रनागः अतीव सन्तुष्टःसः विशाखम् अभिनन्दन् उक्तवान्—“मित्र !! भवान् सूक्ष्मग्राहीताः पेटिकाः पेटिकावाहकाः चत्वारः अपि अस्मदीयाः एवउद्योगार्थम् आगतयोः भवतोः बुद्धिं चतुरतां परीक्षितुं मया एवं कृतम् आसीत्अत्र भवान् उत्तीर्णःव्यापारे कार्यदक्षता बुद्धिचातुर्यम् एतत् द्वयमपि अपेक्षितम्अन्यथा सञ्चितं धनं सर्वं क्षणेनैव विनश्यतिअद्य आरभ्य एव भवान् मत्समीपे उद्योगं करोतुअहं मम मित्रम् इदानीम् एव सूचयामिइति

अस्यां परीक्षायां दैववशात् प्राप्तं विजयं स्मृता विशाखः आश्चर्यचकितः सन्तुष्टः


संस्कृत चन्दमामा. 1984-04. p 40Chandamama India Limited