पुरा मङ्गलः नामकः कश्चित् आसीत्। तस्य गृहस्य पुरतः एकः महान् सालकवृक्षः आसीत्। वृक्षः पर्णपरिपूर्णः आसीत्। ग्रीष्मकाले वृक्षस्य छाया बहु विशालतया प्रसरति स्म। मङ्गलः प्रतिदिनं वृक्षस्य अधः उपविश्य छायासुखम् अनुभवति स्म।
एकस्मिन् दिन सूर्यः प्रखरतया ज्वलति स्म। सर्वत्र महान् आतपः। तस्मिन् दिने मध्याह्ने भोजनं समाप्य तस्य वृक्षस्य छायायाम् उपविश्य विश्रान्तिं स्वीकर्तुम् आगतवान्। किन्तु तत्र पूर्वमेव कश्चित् आगत्य उपविष्टवान् आसीत्। सः एकः चरिष्णुः। सर्वदा विनाकारणम् अटनमेव तस्य कार्यम्।
“भवान् अत्र किमर्थम् उपविष्टवान्। कः अनुमतिं दत्तवान्, उत्तिष्ठतु! उत्तिष्ठतु!” इति वदन् मङ्गलः तम् उत्थापयितुं प्रयत्नं कृतवान्। “अहं किमर्थम् उत्तिष्ठामि? किमर्थं कोपः? महान् आतपः, अत्र छाया अतीव सान्द्रा अस्ति इति कृत्वा अत्र उपविष्टवान्। तावता का हानिः?” इति सः पृष्टवान्।
“बाढम्! भवान् छायाम् इच्छति वा? तत् न शक्यते। एषः मम वृक्षः। अहं बहुकालात् जलसेचनादिकं कृत्वा एनं वृक्षं वर्धितवान्। अत एव एतस्य वृक्षस्य छाया अपि मम एव” इति मङ्गलः उक्तवान्। तत् श्रुत्वा चरिष्णुः दुःखितः भवति। तथापि तस्य सङ्कुचितबुद्धिं दृष्ट्वा मनसि एव हसन् “एवं वा, तर्हि एवं कुर्मः। अस्य वृक्षस्य छायां मम कृत विक्रीनातु। अहं धनं ददामि” इति उक्तवान्।
मङ्गलः एतत् अङ्गीकृतवान्। अनन्तरं बहु विचार्य मापनं कृत्वा तस्याः छायायाः मूल्यं ‘एकशतं रुप्यकाणि देयानि’ इति निश्चयः अभवत्। अन्ते सः एकशतं रुप्यकाणि केषाञ्चन प्रमुखानां पुरतः एव दत्वा तत् स्थलं क्रीतवान्।
अनन्तरं प्रतिदिनमं स चरिष्णुः आगत्य तस्य वृक्षस्य अधः उपविशति स्म। मार्गे परिचितः यः कोऽपि गच्छति चेत् तम् अपि आहूय समीपे उपवेशयति स्म।
किन्तु मङ्गलस्य कृते किञ्चिदपि अवकाशं न ददाति स्म।
अन्ते सः एवं कर्तुम् आरब्धवान्। आवरणे, सोपाने, गृहे एवं वृक्षस्य छाया यत्र यत्र पतति तत्र सर्वत्र चरिष्णुः आगत्य उपविशति स्म। यत्र छाया प्रसरति तत्र सर्वत्र मम अधिकारः अस्ति इति सः वदति स्म।
एतत् दृष्ट्वा मङ्गलः बहु कुपितः अभवत्। “रे! मम गृहस्य आवरणस्य अन्तः अपि आगच्छति वा? अत्र आगन्तुं भवतः अधिकारः नास्ति।”
“किमर्थं भोः! विस्मृतं वा? यत्र छाया प्रसरति तत्र मम अधिकारः अस्ति खलु? मास्तु इति वक्तुं भवान् कः? जनान् पृच्छतु मम अधिकारः अस्ति वा न वा? इति”
मङ्गलः “स्वयं कृतः अपराधः। किं करोमि”? इति तूष्णीम् अभवत्।
एकस्मिन् दिने मङ्गलस्य गृहं उत्सवः आसीत्। सर्वे बान्धवाः परिचिताः आगतवन्तः। मध्यान्हे मध्याह्ने भोजनस्य समयः। सर्वे भोजनार्थम् उपविष्टवन्तः। मङ्गलस्य गृहस्य आवरणे अपि वृक्षस्य छाया प्रसृता आसीत्। तदा सः चरिष्णुः आगत्य साक्षात् गृहस्य अन्तः एव उपविष्टवान्। अतिथयः सर्वे आश्चर्यचकिताः। कः एषः? आह्वानं विना आगतवान्? मध्ये एव उपविष्टवान् इति परस्परं विचारं कृतवन्तः।
सः चरिष्णुः “अहम् अस्य वृक्षस्य सम्पूर्णां छायां क्रीतवान्। भवतां कृते अपि मम अनुमतिं विना अत्र उपवेष्टुम् अवकाशः नास्ति” इति उक्तवान्।
वृक्षस्य छायायाः विक्रयणविचरं श्रुत्वा सर्वे बान्धवाः बहु हसितवन्तः। अनेन प्रसङ्गेन मङ्गलस्य बहु अपमाननम् अभवत्।
अनन्तरं लज्जितः मङ्गलः केषुचित् दिनेषु एव स्वग्रामं त्यक्त्वा सपरिवारम् अन्यं ग्रामं गतवान्।