॥ ॐ श्री गणपतये नमः ॥

दानरहस्यम्पञ्चविंशतिवर्षेभ्यः पूर्वं चन्दमामायां प्रकाशिता कथा।

एकस्मिन् ग्रामे विष्णुदत्तः इति एकः हरिदासः (हरिकथावाचकः) अस्तिसः ग्रामं ग्रामं गत्वा श्रोतारः यथा आनन्दं प्राप्नुवन्ति तथा हरिकथां वदतिजनाः धनं सन्तोषेण ददतिअनेन मार्गेण विष्णुदत्तः जीवननिर्वहणं करोति

एकदा विष्णुदत्तः एकं ग्रामं प्रति गतवान्तत्रत्याः जनाः सन्तोषेण विष्णुदत्तेन हरिकथां वाचयितुं निश्चयं कृतवन्तःतस्मिन् ग्रामे रामगुप्तः इति एकः धनिकः आसीत्तस्य गृहे विशालम् अङ्गणम् आसीत्अतःतत्रैव कार्यक्रमं कुर्मःइति जनाः निश्चयं कृत्वा, विष्णुदत्तेन सह रामगुप्तस्य गृहं गत्वा तस्य समीपे एवम् टक्तवन्तः उक्तवन्तःभोः! एतेन विष्णुदत्तेन हरिकथां वाचयितुं वयं सर्वे निश्चयं कृतवन्तःसः कार्यक्रमः भवतः गृहे भवतुकार्यक्रमानन्तरं वयं यथाशक्ति धनं दत्वा सम्मानं कुर्मः।”

यद्यपि रामगुप्तः एतादृशविषये अनासक्तः तथापि एतेन कार्यक्रमेण अहं गौरवस्य पात्रं भवामि इति आलोच्य उक्तवान्अस्तु नाम, बहु समीचीनम्अत्रैव कार्यक्रमः भवतु इति सर्वे निश्चयं कृतवन्तः चेत्, अहं धन्यःकार्यक्रमं चालयामःअपि विष्णुदत्तस्य वसतिरपि अत्रैव भवतु”।

रामगुप्तगृहस्य अङ्गणे मण्टपस्य निर्माणं कृत्वा वेदिकानिर्माणम् अपि कृतवन्तःरात्रौ वेदिकायाः मध्ये देवस्य चित्रं स्थापयित्वा दीपमपि ज्वालितवन्तःदेवस्य समीपे शरावं स्थापितवन्तःहरिकथां श्रोतुं सर्वे मण्टपे उपविष्टवन्तःतेषु केचित् जनाः कथायाः आरम्भे एव यथाशक्ति धनं समर्पितवन्तःअन्ये केचित् कथायाः अन्ते समर्पयितुं निश्चयं कृतवन्तःधनिकः रामगुप्तः विष्णुदत्तस्य कृते दातुम् एकं राङ्कवं शतं रूप्यकाणि सज्जीकृत्य प्रकोष्ठे स्थापयित्वा कथां श्रोतुम् आगतवान्

तस्मिन् एव ग्रामे श्यामगुप्तः इति एकः आसीत्सः कथायाः पूर्वम् आगत्य शरावे चत्वारि रूप्यकाणि समर्पितवान्विष्णुदत्तस्य कृते न्यूनमूल्यम् एकं राङ्कवं दत्तवान्यद्यपि सः श्यामगुप्तः धनिकः एवयदि हरिकथाकार्यक्रमः तस्य गृहे एव स्यात् तदा सः इतोऽपि अधिकधनेन सम्मानयितुं समर्थः

धनिकः रामगुप्तः तु समीपे एव उपविश्य सर्वं पश्यन् एव आसीत्—“सर्वे कति ददतिइतिसर्वेषाम् अपेक्षया श्यामगुप्तः एव अधिकं दत्तवान्एतत् दृष्ट्वा रामगुप्तस्य मनसि एकः विचारः समुत्पन्नःमया किमर्थं शतं रूप्यकाणि अधिकमूल्य-राङ्कवं दातव्यानि? मयापि दश रूप्यकाणि, एकं सामान्यं वस्त्रं दीयन्ते चेत् अलम्

विष्णुदत्तः तु बहु बुद्धिमान्एतादृशान् बहून् कार्यक्रमान् सः दृष्टवान्सः दृष्ट्या एव अन्येषां मनः ज्ञातुं समर्थःतस्य कथावाचनसमये रामगुप्तः केनापि व्याजेन प्रकोष्ठं गतवान्तत्र गत्वा पूर्वमेव सज्जीकृतानि राङ्कवं रूप्यकाणि कपाटिकायां स्थापयित्वा अन्यत् एकं वस्त्रं दश रूप्यकाणि पेटिकातः बहिः स्थापयित्वा पुनः आगत्य उपविष्टवान्

विष्णुदत्तः रामगुप्तस्य मनसि कः कः विचारः आगतः इति मुखभावेन विज्ञातवान्सः अन्तः गत्वा किं कृतवान् इत्यपि ज्ञातवान्अतः रामगुप्तस्य आगमनानन्तरम् एतां कथां आरब्धवान्। “कर्णः महादातायाचकानां कृते नास्ति इति कदापि वदतिएकस्मिन् दिने कर्णः स्नानार्थं गन्तुं प्रवृत्तःतदाएकः ब्राह्मणः याचितुम् आगतवान्इति सेवकः उक्तवान्कर्णःतं ब्राह्मणम् आनयतु मम समीपेइति आज्ञापितवान्।”

ब्राह्मणः यदा आगतवान् तदा कर्णः वामहस्ते सुवर्णपात्रं स्थापयित्वा तत्र स्थितेन तैलेन दक्षिणहस्तेन शरीरे लेपनं कुर्वन् आसीत्

महाराज! अहं दरिद्रः ब्राह्मणःभवते यद् रोचते तद् ददातुइति ब्राह्मणः उक्तवान्तत्क्षणे एव महादाता कर्णः वामहस्ते स्थितं सुवर्णपात्रं तथैव ब्राह्मणस्य कृते दत्तवान्

ब्राह्मणः सन्तोषेण तत् स्वीकृत्यभोः! महादातः! भवान् किमर्थं वामहस्तेन दानं दत्तवान्? सर्वेऽपि दक्षिणहस्तेन एव ददति।” इति पृष्टवान्

तदा कर्णः स्मयमानः एवम् उक्तवान्एषः विषयः सर्वैः ज्ञातव्यःसङ्कल्पितं दानम् अनुक्षणमेव कर्तव्यम्। ‘एतत् सुवर्णपात्रं भवतः कृते दातव्यम्इति सङ्कल्पं कृतवान्तदा एतत् पात्रं वामहस्ते आसीत्एतत् दक्षिणहस्ते स्वीकृत्य दानसमयाभ्यन्तरे मम बुद्धिः अन्यथा अपि भवेत्अतः वामहस्ते स्थितं पात्रं तेन एव हस्तेन दत्तवान्एतदेव दानरहस्यम्।”

एवं कथां समाप्य प्रकृतकथां विष्णुदत्तः अनुवर्तितवान्अनया कथया रामगुप्तस्य कपोलद्वयेऽपि चपेटिकानुभवः अभवत्हरिकथासमाप्तेः अनन्तरं विष्णुदत्तस्य कृते पूर्वसङ्कल्पितापेक्षया अपि द्विगुणितं धनं, कनकं, राङ्कवञ्च दत्तवान्


संस्कृत चन्दमामा. 1984-05. p 46Chandamama India Limited