॥ ॐ श्री गणपतये नमः ॥

सुकुमारीश्रीमाता

विदेहराजस्य एका पुत्री आसीत्वज्रप्रभा इति तस्याः नामएकदा सा उद्यानवने बहुकालपर्यन्तं क्रीडितवतीततः सहसाहन्त! नितरां श्रान्ता अस्मिइति दीर्घं निश्वस्य अन्तःपुरं गत्वा तत्र पर्यङ्के उपविष्टवतीक्रीडासमये तया सह तिस्रः दास्यः आसन्सम्भ्रान्ताः ताः तत्क्षणं तस्याः शुश्रूषां कृतवत्यःताः तस्याः सख्यः अपि आसन्

वज्रप्रभा हंसतूलिकातल्पे विश्रान्तिं लब्धवतीतदा साइदानीम् एकं प्रश्नं पृच्छामिउद्याने मम आयासस्य कारणं किम्? भवतीषु या समीचीनम् उत्तरं ददाति, सा मम रत्नहारं प्राप्तुम् अर्हतिइति सखीः उक्तवती

दास्यः परस्परं दृष्टवत्यःअनन्तरं तासु मरीचिका नाम दासीयदि उत्तरं समीचीनं भवति तर्हि भवती किं करोति? तदपि ज्ञातव्यं किल?” इति पृष्टवती

तदा रत्नहारस्य स्थाने कपोलद्वयस्य चपेटिकाद्वयं लभ्यतेइति वज्रप्रभा उक्तवती

तदा मरीचिका राजकुमारीम् उक्तवती—‘तर्हि अहं मम भाग्यपरीक्षां करोमिबहुकालपर्यन्तं राजकुमारी नेत्रनिमीलनक्रीडायां निरता आसीत्तदेव आयासस्य कारणम्मध्याह्नस्य तीव्रे आतपे तथा धावनेन आयासः अवश्यं भवति एवकेवल केवलं भवती एव तादृशं श्रमं सोढुं शक्नोतिअन्या चेत् मूर्छामेव प्राप्नोति स्मइतितदा वज्रप्रभा क्रोधेन मरीचिकायाः कपोलद्वयम् अपि वेगेन ताडितवतीतत् दृष्ट्वा अन्ये दास्यौ सम्यक् हसितवत्यौ

अनन्तरं मरुद्वती नाम द्वितीया दासीउद्यानसरोवरस्य जले दीर्घकालिकतरणमेव राजकुमार्याः आयासस्य कारणम्तावत् तरणं पुरुषाणामपि दुस्साध्यम्भवती तु बहुसमीचीनतया तरणं कृतवतीप्रथमं नेत्रनिमीलनक्रीडातः आयासः आसीत्तदुपरि पुनः सरोवरजले तरणेन महान् श्रमः जातःइति उक्तवती

पुनः वज्रप्रभा क्रोधेन मरुद्वत्याः कपोलद्वयमपि ताडितवतीअनन्तरं मन्दाकिनी नाम तृतीया दासी तुराजकुमार्याः आयासस्य कारणं धावनं, वा तरणम्अद्य राजकुमारी स्वयमेव लताभ्यः पुष्पावचयं कृतवतीतदेव आयासस्य कारणम्सा अञ्जलिमितानि पुष्पाणि आनीय मालां कर्तुं मम हस्ते दत्तवतीतदा एव तस्याः आयासम् अहं लक्षितवतीइति उक्तवती

मन्दाकिन्याः वचनं श्रुत्वा वज्रप्रभा सन्तोषेण शय्यातः उत्थितवतीरत्नहारं मन्दाकिन्याः कण्ठे योजितवतीमरीचिकायाः मरुद्वत्याः अतीव आश्चर्यम् अभवत्

किञ्चित्कालानन्तरं वज्रप्रभा निद्रामग्ना जातातदा मरीचिका मरुद्वती मन्दाकिन्याः हस्तं गृहीत्वा अन्तःपुरस्य एकस्मिन् कोणे बलात्कारेण आनीयरे मन्दाकिनि! अस्माकं राजकुमार्याः रूपरेखाविलासादयः कीदृशाः इति भवती जानाति वा? अस्माकं राजकुमारी यद्यपि स्थूलकाया, तथापि जडाअपि धृष्टा अपि, इति भवती एव कदाचित् उक्तवतीस्मरति किल?” इति पृष्टवत्यौ

आम्, सत्यमेवतेन इदानीं किं जातम्?’ इति मन्दाकिनी पृष्टवती

तादृशी राजकुमारी इदानीम् अञ्जलिप्रमाणकं पुष्पावचयं कृत्वा श्रान्ता भवति वा? सा तादृशी सुकुमारी अस्ति वा? भवती मिथ्यावादिनी अस्तिभवती केवलं स्वार्थसाधनाय एवम् उक्तवती किल?” इति मरीचिका मरुद्वती मन्दाकिनीं भर्त्सितवत्यौ

तदा मन्दाकिनी किञ्चित् हसित्वाअहं मिथ्यावादिनी अन्येषां मनसां दुःखं यथा भवति तथा अस्माभिः वक्तव्यम्साधारणतया राजकुमार्यः लावण्यवत्यः कुसुमकोमलाश्च भवन्तिकिन्तु अस्माकं राजकुमारी सम्पूर्णतया तद्भिन्ना एवतं विषयं राजकुमारी स्वयं जानाति अपिअत अतः एव स्वकीयरूपस्य सूचकं वचनं यः कोऽपि वदति चेत् सा सहतेतदर्थम् एव सा अस्मान् परीक्षितवतीइति उक्तवती

एवं तर्हि अस्माकं वचनैः राजकुमारी स्थूला कर्कशा अस्ति इत्यर्थः जायते, इति किल भवत्याः अभिप्रायः!’ इति मरीचिका क्रोधेन पृष्टवती

मास्तु कोपःमम वचनं किञ्चित् श्रण्वन्तु शृण्वन्तुइति उक्त्वा मन्दाकिनी पुनः उक्तवती— “राजकुमारी तीक्ष्णे आतपे अपि उद्याने सर्वत्र धावन्ती नेत्रनिमीलनक्रीडायां मग्ना आसीत् इति उक्तम्किञ्च सरोवरे बहुकालपर्यन्तं तरणं कृतवती इति उक्त्वा, एतत् सर्वं पुरुषाणामपि दुःसाध्यम् इति उक्तम्एतानि वचनानि स्वकीयस्थूलकायत्वस्य सूचकानि इति मत्वा सा कोपेन ताडितवतीअहं तु तस्याः मनोभावं सम्यक् जानामिअतः एव पुष्पावचयेन एव भवत्याः आयासः अभवत् इति अहम् उक्तवतीतेन तस्याः महती तृप्तिः अभवत्अन्यमनुष्याणां इङ्गितज्ञानं नास्ति चेत् एवमेव अनर्थः भवतिबहुमानस्य स्थाने चपेटिकाप्राप्तिःअस्तु, वयं तिस्रः अपि प्रियसख्यः किल? एषः रत्नहारः अस्माकं सर्वासाम् अपि भवतुअस्य भागत्रयं कुर्मःइति

मन्दाकिन्याः वचनेन मरीचिकायाः मरुद्वत्याश्च तृप्तिः सन्तोषश्च अभवत्

वज्रप्रभासदृशीनां राजकुमारीणां समीपे कथं व्यवहर्तव्यम् इति भवत्याः वचनेन समीचीनं ज्ञानं प्राप्तम्एषः रत्नहारः भवत्याः एव भवतुतस्य विभागः मास्तुअद्य नूतनं व्यवहारसूत्रं लब्धम्तदेव पर्याप्तम्।” इति ते सख्यौ मन्दाकिनीम् आदरेण अभिनन्दितवत्यौ


संस्कृत चन्दमामा. 1984-05. p 43Chandamama India Limited