॥ ॐ श्री गणपतये नमः ॥

उत्कोचग्राही

विदिशा नाम नगरीतत्र राज्ञः आस्थाने कर्कटशास्त्री नाम ज्यौतिषिकःसः राज्ञः समीपे वदति स्म—“अहं देव्याः उपासकःदेव्याः अनुग्रहेण विवादादिषु अन्तर्भूतं सत्यं ज्ञातुं समर्थः अस्मि”। अतः न्यायव्यवहारः भवति चेत् कर्कटशास्त्रिणम् एव न्यायाधीशत्वेन राजा नियोजयति स्मन्यायव्यवहारे मनुष्याणाम् अपेक्षया देव्याः निर्णयः एव श्रेष्ठः इति राज्ञः अन्येषां विश्वासःकिन्तु कर्कटशास्त्री देव्याः नाम्नि उत्कोचं गृहीत्वा अन्यथा निर्णयं वदति स्म

अनुग्रहः अपि असत्यम् एवइति किंवदन्ती प्रसृतायथार्थं ज्ञातुं मन्त्रिणम् राजा पृष्टवान्मन्त्री एकम् उपायं सूचितवान्राजा कर्कटशास्त्रिणम् आहूय उक्तवान्— ‘शास्त्रिन्! अस्माकम् आस्थाने नियुक्तः श्रीपतिः, सहोद्योगिनः विषये उत्कोचस्य अपवादम् आरोप्य न्यायनिर्णयं निरीक्षमाणः अस्तिकारणान्तरेण तस्य नाम प्रकाशयामिश्रीपतेः आरोपविषये भवान् एव प्रमाणम्न्यायनिर्णयानन्तरं तस्य नाम प्रकाशयामि’।

तद्दिने रात्रौ कर्कटशास्त्रिणः गृहं गत्वा श्रीपतिः प्रार्थितवान्—“आर्य! अहं मम सहोद्योगिनः विषये उत्कोचस्य अपवादम् आरोपितवान्तद् आरोपणं यदि असत्यं भवति तदा राजा माम् एव दण्डयतिअतः अस्मिन् व्यवहारे भवान् मम साहाय्यं करोतु”। एवं प्रार्थनां कृत्वा सहस्त्रं रूप्यकाणि अपि श्रीपतिः दत्तवान्अनन्तरदिने कर्कटशास्त्री सभायां एवम् उक्तवान्—‘महाराज! श्रीपतिः यत् आरोपणं कृतवान् तत् सत्यम् एव’।

राजा कर्कटशास्त्रिणः बन्धनार्थम् आज्ञापितवान्। ‘किमर्थं मम बन्धनम्’? इति शास्त्री पृष्टवान्। “उत्कोचस्य आरोपं भवतः विषये एव श्रीपतिः कृतवान्इति राजा उक्तवान्


संस्कृत चन्दमामा. 1984-05. p 26Chandamama India Limited