श्यामरावः तस्य पत्नी च बहुवर्षाणि यावत् विवाहबद्धौ आस्तां तथापि प्रत्येकस्मिन् अवसरे तस्य पत्नी विमला तेन सह तुच्छकारणैः कलहं कुर्वती आसीत्। तस्याः स्वभावविषये अनासक्तः सः तस्याः रोषं शान्ततया सहमानः आसीत्।
एकस्मिन् दिवसे तयोः वार्षिकविवाहदिनमासीत्। यदा विमला श्यामरावं तस्य विषये स्मारितवती तदा सः तां रात्रिभोजनाय मिष्टान्नं साधयितुं प्रार्थितवान्। किन्तु यथानित्यं तया कलहः प्रारब्धः उक्तं च यत् ‘विवाहानन्तरं तया तस्याः पितृगृहात् कानि कानि वस्तूनि आनीतानि। तस्याः पित्रा विवाहाय कियान् धनव्ययः कृतः’ इति। अन्ते कलहम् असहमानः श्यामरावः अपि तया सह कलहमारभत। तस्मिन् दिवसे श्यामरावः तस्य मनोद्वेगस्य उच्चाङ्कं प्राप्तवान्।
तस्यां रात्रौ विमला कमपि विचित्रं ध्वनिं श्रुत्वा उत्थिता। तया शङ्कितं यत् गृहं कोऽपि प्रविष्टः। गृहे चोर्य भवेत् इति तस्याः भीतिरासीत्। सा श्यामरावम् जागरयितुं प्रायतत किन्तु तयोः कलहेन इतोऽपि उद्वेजितः सः उक्तवान्- “किमेतेन मम? गृहे प्रायः सर्वेषु तव स्वामित्वम्। तर्हि तस्य चिन्ता किमर्थं मया कर्तव्या?” इत्युक्त्वा सः पराङ्मुखः भूत्वा निद्रां गतः।