पुरा ‘ओटिमित्त’ नामके ग्रामे रामः नाम एकः कृषीवलः आसीत्। स्वीकृते प्रत्येकस्मिन् कार्ये सः समृद्धिमलभत उत्तमतया अजीवत् च। गच्छता कालेन सः निश्चितवान् यत् ‘अहं मम सम्पत्ति मम चतुर्षु पुत्रेषु विभाजयामि’ इति।
वृद्धरामेण स्वपुत्राः आहूताः। सम्पत्तेः निर्वाहविषये ते किं चिन्तयन्ति इति सः ज्ञातुम् ऐच्छत्। “पुत्राः! नाहं जानामि कियत् कालं जीवेयम्। यावत् अहं जीवामि तावदेव मम सम्पत्तेः व्यवस्थां युष्मासु चतुर्षु कल्पयितुमिच्छामि। भविष्ये स्वस्य दायित्वविषये यूयं किं चिन्तयथ इति अहं ज्ञातुं शक्नोमि चेत् युष्मदिच्छया अहं सम्पत्तेः विभाजनं कर्तुं पारयामि। मम निधनानन्तरं तद्विषये भवत्सु विवादः न भवेत्” इति। “तात, अहं कृषिविषयकं दयित्वं दायित्वं स्वीकरोमि।” सत्वरमुक्तवान् ज्येष्ठः पुत्रः। किञ्चित् कालं चिन्तयित्वा द्वितीयपुत्रः उक्तवान्, “तात, स्वग्रामे विद्यमानस्य सम्पत्तेः दायित्वम् अहं निर्वहामि।” तेषु तृतीयः पुत्रः अगदत् अवदत्, “तात, ग्रामान्तरे विद्यमानस्य सम्पत्तेः दायित्वं मम भवतु” इति। अधुना केवलं राष्ट्रान्तरे विद्यमानस्य व्यापारस्य दायित्वमवशिष्टम्। रामः तद्विषये स्वस्य चतुर्थं पुत्रं पृष्टवान्। तस्य अपेक्षा आसीत् यत् कनिष्ठः पुत्रः तद् दायित्वं स्वीकुर्यात्। उत्तरम् अदत्त्वा सः सावकाशम् उक्तवान्, “प्रिय तात, भवता मह्यं किमपि न दातव्यम्। भवता इदम् इदं जीवनं मह्यं दत्तम्। अहं समर्थः स्वतन्त्रः च कृतः। एतद् मदर्थं पर्याप्तमस्ति। अहं भवतः शुश्रुषां शुश्रूषां करोमि।”
आनन्दितः रामः स्वपुत्रं गाढम् आलिङ्गितवान्। तेनं स्वार्जितं सर्वं चतुर्षु पुत्रेषु समानतया वितीर्णम्। अग्रिमकालार्थं कनिष्ठपुत्रेण सह जीवितव्यम् इति च निश्चितम्।