॥ ॐ श्री गणपतये नमः ॥

यथा तथाभामहः

चन्दनपुरे भास्करः नाम तरुणः आसीत्। तस्य पत्नी अम्बिका नाम। सा पार्श्वग्रामस्थ-धनिकस्य पुत्री। पतिः पत्नी च दाम्पत्यजीवनं सानन्दं निर्वहति स्म।

भास्करस्य मित्रं मुकुन्दः। एकदा मुकुन्दः पत्न्या सह नगरतः भास्करस्य गृहम् आगतवान्। मुकुन्दस्य पत्नी गौरी। सा सुमधुरं गायति स्म। तस्याः गानं श्रुत्वा भास्करः अम्बिका च बहुसन्तोषं अनुभूतवन्तौ। गानं श्रुत्वा श्रुत्वा एकः सप्ताहः दिवसः इव अतीतः।

सप्ताहानन्तरं मुकुन्दः पत्न्या सह स्वगृहं गतवान्। भास्करः पत्न्या सह वार्तालापं कुर्वन् उक्तवान् “गौर्याः सुमधुरं गानं श्रुतं किल? अम्बिके! अहं चिन्तयामि, इतः परं भवती अपि सङ्गीतं किमर्थं न अभ्यस्येत्” इति। पत्युः प्रश्नेन अम्बिका आश्चर्यचकिता। सा मनसि चिन्तितवती—“सङ्गीतं, चित्रलेखनं, कवित्वं नर्तनम् इत्यादयः कलाः बाल्ये वयसि एव अभ्यसनीयाः। प्रौढे वार्धक्ये वा वयसि कलाः अभ्यसितुं प्रायः न शक्याः। गौरी तु षष्ठे वयसि एव सङ्गीताभ्यासम् आरब्धवती। ततः आरभ्य सततं कृताभ्यासात् एव गौरी मधुरं गायति” एवं मनसि विचिन्त्य अम्बिका पतिम् उक्तवती “मम कण्ठस्वरः न मधुरः। अतः कथं गायामि?”

किन्तु भास्करः पत्न्याः उत्तरेण न सन्तृप्तः। सः सभ्रूभङ्गम् उक्तवान्—“कण्ठस्वरः तु सुमधुरः एव। प्रतिदिनं किञ्चित् किञ्चित् यदि सङ्गीताभ्यासः क्रियते, विना आयासं सङ्गीते नैपुण्यम् सम्पादयितुं शक्यम्। किन्तु सर्वस्य अपि मूलं मनःप्रवृत्तिः। अतः प्रयत्नं करोतु।”

कानिचित् दिनानि गतानि। ओङ्कारशर्मा नाम चित्रकारः तं ग्रामम् आगतवान्। तत्र स्वचित्राणि प्रदर्शितवान्। सर्वाणि चित्राणि रमणीयानि आसन्। तानि चित्रकारस्य नैपुण्यस्य साक्षीभूतानि आसन्।

तानि चित्राणि दृष्ट्वा अम्बिका अतीव सन्तुष्टा। सा चित्राणां विषये वार्तालापं कुर्वती पतिम् उक्तवती—“कियन्ति सुन्दराणि तानि! जीवन्ति इव सन्ति। यदि प्रयत्नः क्रियते भवता अपि तादृशानि चित्राणि लेखितुं शक्यानि। अतः सुन्दरम् एकं चित्रं भवान् अपि आलिखतु।”

भास्करः आश्चर्येण उक्तवान्—“किं? मया चित्रं लेखनीयं वा? चित्रलेखनं नाम किं कन्दुक-क्रीडनं वा?”

“चित्रलेखनं सुलभम् इति न उक्तवती। यदि आग्रहेण रेखाः विन्यस्यन्ते, चित्रत्वेन परिणमन्ति एव। अभ्यासात् सर्वेष्टसिद्धिः किल। अतः भवान् अपि प्रयत्नं करोतु” इति अम्बिका सहासं उक्तवती।

एतत् श्रुत्वा गानविषये पत्न्यै आत्मना उक्तं भास्करः स्मृतवान्। उक्तवान् च—“तद्दिने मित्रस्य पत्न्याः गौर्याः गानं श्रुत्वा भवत्यै असम्भवकार्यम् उपदिष्टवान्। निःसारः सः उपदेशः इति इदानीं ज्ञातवान्। कलासु नैपुण्यं नाम न सुलभम्। बाल्यात् आरभ्य यदि अभ्यस्यते तदा नैपुण्यं सम्पादयितुं शक्यं भवेत्। तत्रापि स्वभावतः श्रद्धा अपेक्षिता।”

“इदानीं किल ज्ञातं? कलासु नैपुण्यं न सुलभम् इति। इदानीं भवान् यथा चित्रम् आलेखितुं न शक्नोति तथा अहमपि गातुं न शक्नोमि” इति अम्बिका उक्तवती।

‘किन्तु इतः परम् एवं कर्तुं शक्यम्। तत्तत्कलासु निपुणाः कलाविदः आमन्त्रणीयाः। ते सम्माननीयाः। तेषां कलाविषये आदरभावः प्रकटनीयः’ इति भास्करः प्रत्युत्तरं दत्तवान्।

अम्बिका मनसि आनन्देन उक्तवती—‘कलायाः महत्वम् अद्य मम पतिः ज्ञातवान्’ इति।


संस्कृत चन्दमामा. 1984-05. p 49Chandamama India Limited