॥ ॐ श्री गणपतये नमः ॥

हस्यताम् उदरोपपीडम्

पर्यटकः— कस्य तत् कपालम्?

श्रान्तः निर्देशकः— श्रीमन्, तत् जूलियस्-सीजर-महोदयस्य कपालम्।

पर्यटकः— तर्हि तस्य समीपस्थं लघु कपालम् कस्य?

श्रान्तः निर्देशकः— तत् श्रीमन्, बाल-जूलियस्-सीजरस्य कपालम्

मार्टिनः— वैद्याः परिचारिकाः च मुखावगुण्ठनं किमर्थं धारयन्ति?

जोनः— यतः कस्यापि प्रमादः भवति चेत् सः केन कृतः इति कोऽपि न ज्ञास्यति।

शिक्षिका— गोपाल, पर्यटनविषये त्वया लिखित: निबन्ध: तव यमल-भगिन्याः निबन्धसमः एव अस्ति।

गोपालः— आचार्ये, पर्यटनस्थलं तदेव आसीत् खलु!

माता— तुलसि, तव मुखं किमर्थं रक्तवर्णम्?

तुलसी— अहं कलहं शमयितुं मार्गे धावितवती।

माता— तद् अतीव शोभनम्। कः कलहं कृतवान्?

तुलसी— राहुलः च अहं च।

क्रीडाप्रशिक्षकः— राजेश, त्वया उत्तमरीत्या क्रीडितम्।

राजेशः— आर्य, अहं मन्ये मम क्रीडा असमीचीना आसीत्।

क्रीडाप्रशिक्षकः— त्वया तु प्रतिपक्षस्य कृते उत्तमं क्रीडितम्।

रोहनः आक्षेपं कुर्वन् गृहमागतवान् यत् घण्टां यावत् याने प्रत्यक् उपविश्य कृतेन प्रवासेन सः अस्वस्थः जातः इति।

“तव सम्मुखम् उपविशन्तं जनं प्रार्थ्य स्थानपरिवर्तनं किमर्थं न कृतम्?” इति तस्य जननी पृष्टवती।

“तत् कथं शक्यम् इति मम पुरतः कोऽपि उपविष्टः नासीत्” सः उक्तवान।


संस्कृत चन्दमामा. 2012-07. p 73Chandamama India Limited