खिस्ताब्दस्य एकैकनवैकतमे शतके रविन्द्रनाथटागोर नाम्ना कविना लिखितं ‘जन-गण-मन’ इति मूल-बंगालि-गीतं तत्त्वबोध-प्रकाशिकायां प्रकाशितम् अभवत्। नवैकनवैकतमे शतके एषः कविः आन्ध्रप्रदेशस्थं चित्तूरराज्यस्थं मदनपल्ले नाम प्रदेशं द्रष्टुं गतः। सः ‘द बेसन्त थिओसोफिकल्’ महाविद्यालयस्य मुख्याध्यापकेन जेम्स एच्. कझिन्स नाम्ना आयरिश-कविना निमन्त्रितः आसीत्। फेब्रुवरी-मासस्य एकस्मिन् दिने सायंकाले डॉ. कझिन्स महोदयेन तस्य मागरिट् नाम्ना पत्न्या तथैव कैश्चन विद्यार्थिभिः च एषः कविः बङ्गालीगीतं गातुं प्रार्थितः। यदा रविन्द्रनाथः ध्रुवपदं गीतवान् तदा सम्मिलितैः सर्वैः तेन सह ‘जय हे जय हे’ इति गातुमारब्धम्। मदनपल्ले-निवासे रविन्द्रनाथः तद्गीतम् आग्लभाषायां लिखितवान्।
अष्टचतुर्नवैकतमे शतके ऑगस्ट-मासस्य पञ्चदशे दिने यदा लालदुर्गः इति स्थाने प्रधान-मन्त्रिणा जवाहरलालनेहरु-महोदयेन प्रथममेव ध्वजारोहणं कृतं तदा कझिनमहोदयया स्वरबद्धम् एतद् राष्ट्रगीतं शीख-सैनिक-गणेन वादितम्। ततः प्रभृति वयम् इदम् राष्ट्रगीतं गायामः।
भारतस्य स्वातन्त्र्य-सङ्ग्रामस्य आरम्भः सप्तपञ्चाष्टैकतमे शतके मार्चमासस्य नवविंशतितमे दिने जातः। अस्मिन् दिने ब्रिटिश-शासनेन गृहीतः मङ्गलपाण्डे-महोदयः बराकपूर-बन्दीगृहात् पलायनं कृत्वा तत्रस्थं अधिकारिणं हतवान्। शूलम् आरोपितः सः परकीय-शासनात् स्वातन्त्र्यप्राप्तेः कृते जीवितत्यागी स्मरणीयः वीरः खलु! विरलाः जनाः जानन्ति यत् ब्रिटिशशासनस्य विरोधे वेल्लोरग्रामे (१८०६), विशाखापट्टणे (१७८०) तथा च मदुराईमध्ये (१७६३) भारतीयजनानां क्षोभः आरब्धः। विझागनगरस्थस्य प्रतिकारस्य परिणामतः गृहीतैः भारतीयजनैः ब्रिटिश सैनिकानां नागरिकानां च हननम् आरब्धम्। मेजर-शेख-मुहम्मद-महोदयः तेषां नेता आसीत्। तैः मद्रास-बाष्पनौका-आरोहणस्य आज्ञा लङ्गिता। तैः केचन अधिकारिणः बद्धाः पलायिताः च। पश्चात्काले ते गृहिताः। तदा केचन अधिकारिणः गृहीतजनाः च मृताः। शेख-मुहम्मद-महोदयः ततः कार्यार्थम् नियुक्तः।