ऑगस्टमासस्य सञ्चिकायां सम्पादकीयं लेखं लेखितुकामः अहं यदा लेखनीम् आयासयितुम् उद्युक्तः, तदा मया गतवर्षे ऑगस्टमासे प्रकाशितं सम्पादकीयं पठितम्। यद्यप्यहं तदेव समानं सम्पादकीयम् अस्यामपि सञ्चिकायां प्रकाशयामि तथापि चर्वितचर्वणदोषभाक् न भवामि, यतः प्रकाशितपूर्वमपि तत् लेखनम् अद्यापि औचित्यं भजते।
परन्तु सतीष्वपि नैकासु विपत्सु न्यूनतासु च अस्माभिः आशा न त्याज्या। इदानीन्तनयुवकाः आत्मविश्वासेन सम्पूर्णाः। तान् सुयोग्यपरिवर्तनचिकीर्षून् दृष्ट्वा वयं दृढम् आशास्महे यत्, पूर्वं कदाचित् उप्तानि प्रगतिबीजानि भविष्यत्काले सर्वस्यापि ईप्सिते राष्ट्रोत्थानरूपे फले परिणतानि भविष्यन्ति।
एतस्मात् मासात् परं चन्दमामायाः सन्थालीपत्रिका न प्रकाश्यते इत्येतां दारुणवार्ता दुःखेन व्याकुलितमनसः वयं भवद्भ्यः निवेदयामः। पाठकानाम् क्षीणः प्रतिस्पन्दः, सर्वकारपक्षतः अस्यां भाषायां बालानां कृते पत्रिकाप्रकाशनार्थं साहाय्यस्य नितराम् अभावः च अस्य दुःखदनिर्णयस्य हेतू। तथापि वयं बहुपाठकसुखाय चन्दमामाप्रकाशने यथाशक्ति प्रयत्नान् अनुवर्तयामः।
सर्वेभ्यः सस्नेहं स्वातन्त्रदिनस्य हार्दाः शुभाशयाः वितीर्यन्ते।