Narration: © हर्षदा मादिराजु/CC BY-SA
हिरण्याक्षः हिरण्यकशिपुः च द्वौ भ्रातरौ आस्ताम्। तयोः मध्ये एकदा हिरण्याक्षः विष्णुना मारितः। अनेन कारणेन हिरण्यकशिपुः भगवतः नारायणस्य महान् वैरी संजातः। स भगवतः वैरशोधनाय प्रजापतेः ब्रह्मणः आराधनां चकार। भगवान् प्रजापतिः तस्य तपसा भक्त्या च प्रसन्नः भूत्वा तस्मै दर्शनं दत्तवान्। ततः हिरण्यकशिपुः ब्रह्माणम् एवं वरम् अयाचत—
नान्तर्बहिर्दिवा नक्तं अन्यस्मादपि चायुधैः।न भूमौ नाऽम्बरे मृत्युन नर्न मृगैरपि॥
ब्रह्मा अपि तथैव अस्तु इति उक्त्वा तस्मै तं वरं प्रददौ। ततः हिरण्यकशिपुः ब्रह्मणः वरं लब्ध्वा गर्वितः सन् तस्मात् एव दिनात् देवान् ऋषीन् मनुष्यान् च पीडयितुं प्रारभत।
हिरण्यकशिपोः प्रह्लादनामा एकः पुत्रः आसीत्। स विष्णोः महान् भक्तः आसीत्। स सर्वदा विष्णोः एव नाम जपति स्म, तस्य एव कीर्तनं करोति स्म, तस्य एव गुणान् गायति स्म, तस्य एव भजनं करोति स्म, तथा तस्य एव निरन्तरं चिन्तनं करोति स्म। इदं दृष्ट्वा हिरण्यकशिपुः अत्यन्तं कुपितः बभूव। स प्रह्लादं बहुवारं बोधयामास यत् विष्णुः मम महान् शत्रुः अस्ति। तस्मिन् त्वया प्रीतिः न कर्तव्या। परं प्रह्लादः कदापि विष्णुभक्तिं न त्यक्तवान्। ततः हिरण्यकशिपुः तं पाठशालायां पठनाय प्रेषयामास। परं तत्र अपि प्रह्लादः भगवतः नामकीर्तनं कदापि न विस्मरति स्म। अपि तु अन्यैः अपि बालकैः कीर्तनं कारयति स्म। हिरण्यकशिपोः आज्ञया तस्य गुरुः अपि अनेकवारं प्रह्लादं निवारयामास परं तथापि प्रह्वादः विष्णोः भक्त्याः विरतः न अभूत्।
इदं श्रुत्वा हिरण्यकशिपुः अत्यन्तं दुःखितः बभूव। स विचारितवान्—यदि बहुवारं निवार्यमाणः अपि प्रह्लादः स्वकीयं दुरभ्यासं न त्यजति तर्हि एतादृशस्य शत्रुभक्तस्य बालकस्य मरणमेव वरं वर्तते। एवं निश्चयं कृत्वा स भृत्यान् आदिशत्—नयत एनं, तथा पर्वतशिखरात् भूमौ पातयत—इति। भृत्यैः तथा एव अनुष्ठितम्। परन्तु भगवद्भक्तेः प्रभावात् प्रह्लादस्य अणीयसी अपि हानिः न अभूत्। ततः हिरण्यकशिपुः तप्तस्य तैलस्य कटाहे प्रह्लादं पातयितुं भृत्यान् आदिदेश। भृत्याः पुनः अपि तथा एव कृतवन्तः। परन्तु प्रह्लादः यदा तैलस्य कटाहे पातितः तदा तस्य अङ्गसम्पर्कात् तैलम् अपि शीतलं जातम्। प्रह्लादः च कटाहे एव उपविष्टः नारायण नारायण इति कीर्तनं कर्तुं प्रारब्धवान्।
इदं श्रुत्वा हिरण्यकशिपोः मनसि महती चिन्ता उत्पन्ना। स वारं वारं चिन्तयामास—केन प्रकारेण अयं हन्तव्यः? स निजां स्वसारं होलिकाम् आहूतवान्। आहूय च तस्यै प्रह्लादस्य सर्वं वृत्तान्तं निवेद्य कथितवान्। स्वसः! इमं प्रह्लादं त्वं निजे अङ्के निधाय जाज्वल्यमाने अग्नौ उपविश येन अयं ज्वलित्वा भस्मतां गच्छेत्। होलिका तथा एव कृतवती, परं तत्रापि प्रह्लादः सुरक्षितः एव अतिष्ठत्। तस्य प्रवेशात् जाज्वल्यमानः वह्निः अपि शीतलः बभूव।
ततः सर्वेषु उपायेषु निष्फलेषु क्षुब्धः भूत्वा हिरण्यकशिपुः स्वयम् एव प्रह्लादं प्रोवाच—अरे रे दुष्ट बालक! कुत्र वर्तते तव नारायणः यस्य सदा कीर्तनं करोषि?
प्रह्लादः अब्रवीत्—तात! मम नारायणः तु सर्वव्यापकः अस्ति। स जले स्थले, आकाशे पाताले, अन्तः वहिः, उपरि नीचैः सर्वत्र विराजमानः वर्तते। किमपि ईदृशं स्थानं नास्ति यत्र नारायणः न स्यात्।
“यदि एवं तर्हि किम् अस्मिन् स्तम्भे अपि वर्तते? अस्ति चेत् दर्शय। अन्यथा अनेन एव खड्गेन तव शिरः कर्तयामि।”
एवं कथयित्वा हिरण्यकशिपुः स्तम्भस्य उपरि पाद-प्रहारं कृतवान्। ततः महता शब्देन सह स्तम्भात् नृसिंहरूपधारी नारायणः निश्चक्राम। निष्क्रम्य च हिरण्यकशिपुं क्रोडे कृत्वा तस्य वक्षःस्थलं नखैः विदारयामास। ततो भगवतः दशनेन आह्लादितः प्रह्लादः तस्य बहुधा स्तुतिं चकार। नारायणः अपि तस्य अनया अपूर्वया भक्त्या प्रसन्नः भूत्वा तस्मै परमं पदं प्रादात्।