॥ ॐ श्री गणपतये नमः ॥

दृढसङ्कल्पः ध्रुवः"वासुदेव द्विवेदी शास्त्री"

पुरा सत्ययुगे एकः उत्तानपादनामकः राजा बभूवतस्य द्वे भार्ये आस्ताम्एका सुनीतिः अपरा सुरुचिःअनयोः मध्ये यथा सुरुचिः राज्ञः प्रियतमा आसीत् तथा सुनीतिः आसीत्सुरुचेः पुत्रः आसीत् उत्तमःसुनीतेः पुत्रः आसीत् ध्रुवः

एकदा उत्तमः निजपितुः उत्तानपादस्य क्रोडे खेलति स्मतं तथा खेलन्तं दृष्ट्वा ध्रुवः अपि तथैव पितुः क्रोडे खेलितुम् ऐच्छत् धावित्वा पितुः क्रोडम् आरुरोहपरन्तु इदं दृष्ट्वा सुरुचिः अतीव कुपिता बभूवसा ध्रुवं राज्ञः क्रोडात् अपसारयन्ती उवाचवत्स! दूरम् अपसरनहि त्वं राज्ञः अङ्के स्थातुं योग्यः असिमम एव पुत्रः राज्ञः अङ्के उपवेष्टुं योग्यः अस्ति, अन्यः।”

तस्याः इदं निष्ठुरं वचनं श्रुत्वा ध्रुवः अत्यन्तं दुःखितः भूत्वा मातुः समीपे जगाम तथा इमां वार्तां मातरं निवेदयामासतदा सुनीतिः पुत्रस्य अनादरं श्रुत्वा दुःखिता सती ध्रुवम् एवम् उवाचवत्स! अहम् एव मन्दभाग्या अस्मिअतः एव त्वम् अपि दुःखं प्राप्रोषिअतः त्वं यदि स्वदुःखं दूरीकर्तुं वाञ्छसि तर्हि भगवतः नारायणस्य आराधनां कुरुसः एव सर्वेषां दुःखं विनाशयतिअतः सः एव तव अपि दुःखं दूरीकरिष्यतितेन तम् एव आराधयस्व, तम् एव सेवस्व तथा तम् एव भजस्व।”

अथ ध्रुवः मातुः उपदेशं श्रुत्वा तत्कालमेव विष्णोः आराधनाय वनं प्रति प्रस्थानम् अकरोत्वनं गच्छतः तस्य मार्गे महर्षिः नारदः मिलितःनारदः ध्रुवं वनगमनात् पुनः पुनः निवारयामास। “वत्स! बालकः असि, सुकुमारं शरीरम् अस्तिवने भयङ्कराः जन्तवः विचरन्तिअतः मम वचनं मन्यस्व, निवर्तस्व पुनर्भवनम्, मा वनं याहिइति वारं-वारं बोधयामासपरन्तु ध्रुवः निज-निश्चयात् विचलितः बभूवतदा नारदः तस्य दृढ-निश्चयं दृष्ट्वा अकथयत्वत्स! यदि त्वं वनम् एव गन्तुं निश्चयं कृतवान् असि तर्हि गच्छतत्र गत्वा नमो भगवते वासुदेवायइति मन्त्रस्य जपं कुरुतेन तव सर्वेषां मनोरथानां पूर्तिः भविष्यति।”

ध्रुवः नारदस्य दर्शनेन उपदेशेन प्रसन्नः भूत्वा वनं जगाम, तत्र कठोरं तपः प्रारब्धवान् शैत्यं वा आतपं वा, सुखं वा दुःखं वा, दिनं वा रात्रिं वा किमपि अगणयन् कठोरं तपः अकरोत्ततः तस्य अपूर्वेण तपसा, अनन्यया भक्त्या प्रसन्नः भूत्वा भक्तवत्सलः भगवान् नारायणः तत्र प्रकटः बभूवतस्मै दर्शनं दत्वा

वेदाहं ते व्यवसितं हृदि राजन्यपुत्रकतत् प्रयच्छामि भद्रं ते दुरापमपि सुव्रत

इति कथयन् ध्रुवाय सर्वोत्तमं स्थानं प्रददौ तथा तं वरं लब्ध्वा ध्रुवः प्रीतमनाः भूत्वा गृहं प्रति परावर्तत

इतः ध्रुवस्य वनगमनात् राजा उत्तानपादः सर्वदा उदासीनः तथा शोकाकुलः तिष्ठति स्मअनेन कारणेन सुरुचेः अपि विरक्तमनाः बभूवअनन्तरं कथमपि गृहे शान्तिम् अलभमानः धुवस्य अन्वेषणाय वनं गन्तुं निश्चयं चकारततः समाते तपसि स्वयमेव आयान्तं ध्रुवं दृष्ट्वा राजा हर्षेण गद्गदः भूत्वा उवाचवत्स! अद्य आरभ्य त्वम् एव मम प्रियः पुत्रः असित्वम् एव इतः परं राज्यस्य अधिपतिः स्थास्यसि।” एवं कथयन् राजा उत्तानपादः ध्रुवं नगरे आनिनाय तथा तं राजपदे अभिषिक्तं चकार

ततः परं ध्रुवः बहून् वर्षान् राज्यं कृत्वा अन्तिमे वयसि ध्रुवं पदं प्राप


बालकथामाला. 1997-05-15. p 2लेखकः/सार्वभौम संस्कृत प्रचार संस्थानम्