प्राचीनकाले एकः धौम्यनामा महान् ऋषिः आसीत्। तस्य आश्रमे बहवः ब्रह्मचारिणः विद्याभ्यासं कुर्वन्ति स्म। तेषु ब्रह्मचारिषु त्रयः ब्रह्मचारिणः विशेषेण बुद्धिमन्तः तथा गुरुभक्ताः आसन्। आरुणिः उपमन्युः तथा वेदः इति तेषां नामानि आसन्।
एकदा आचार्य-धौम्यस्य क्षेत्रे सेचनाय पानीयं बाह्यते स्म। तत्र कदाचित् क्षेत्रस्य एकः बन्धः भग्नः जातः। बन्धे भग्ने सर्वं जलं क्षेत्राद् बहिः गच्छति। इदं श्रुत्वा महर्षिः धौम्यः आरुणिं प्रति उवाच—वत्स आरुणे! क्षेत्रे बन्धस्य भङ्गेन सर्वं जलं क्षेत्राद् बहिः निर्गच्छति। अतः शीघ्रं गच्छ। बन्धं बधान। जलं रुन्धि। अन्यथा महती हानिः भविष्यति।
आचार्यस्य आदेशं श्रुत्वा आरुणिः तत्कालम् एव क्षेत्रं गतः। बन्धस्य बन्धनाय प्रयतनं कर्तुं प्रारेभे। बहून् उपायान् कृतवान्। परं तस्य सर्वः परिश्रमः व्यर्थः अभूत्। जलस्य वेगः अतीव तीव्रः आसीत्। अतः स एकाकी जलस्य निरोधे सफलः न बभूव।
ततः आरुणिः विचारितवान्—इदानीं किं करवाणि? जलस्य निरोधाय गुरोः आज्ञा अस्ति। ततः इदं कार्यम् अकृत्वा आश्रमं कथं गमिष्यामि? तत् अहम् एव बन्धस्थाने शयित्वा स्वकीयेन शरीरेण जलं निरुणध्मि। एवं विचार्य स तत्रैव शयितः, स्वशरीरेण च जलनिरोधं कृतवान्। अनेन उपायेन यदा तस्य इच्छा सफला बभूव तदा तस्य मानसे महान् आनन्दः अजायत।
तथापि सायङ्कालः जातः। सर्वत्र अन्धकारः व्याप्तः। परन्तु आरुणिः आश्रमं न निवृत्तः। अनेन कारणेन गुरोः धौम्यस्य मनसि महती चिन्ता अभूत्। स शिष्यान् अपृच्छत्—आरुणिः कुत्र वर्तते? ते ऊचुः—आचार्य! प्रातःकाले एव स भवता जलस्य निरोधाय क्षेत्रे प्रेषितः। तस्मात् कालात् तं अवयम् आश्रमे न अवलोकितवन्तः। अतः तेन तत्रैव भवितव्यम्।
इदं श्रुत्वा शिष्यवत्सलः महर्षिः अतीव विकलः बभूव। स त्वरितम् एव आरुणेः अन्वेषणाय शिष्यैः सह क्षेत्रं प्रति प्रस्थितः। परं तत्र स आरुणिं न दृष्ट्वा तम् उच्चस्वरेण आहूतवान्—आरुणे! वत्स आरुणे! कुत्र वर्तसे! किं करोषि?
आरुणिः गुरोः वचनं श्रुत्वा जगाद—गुरो! अहम् अत्रैव क्षेत्रे स्वयं बन्धः भूत्वा स्थितः अस्मि। तस्य वचनं श्रुत्वा गुरुः स्वयमेव तस्य समीपं गतः। तत्र तं क्षेत्रे तथा वर्तमानं दृष्ट्वा तस्य मनसि महत् आश्चर्यं बभूव। स तस्य इमाम् अलौकिकीं गुरुभक्तिं दृष्ट्वा अतीव प्रसन्नः जातः। स तस्य तदानीम् ‘उद्दालक’ इति नाम चकार। अनन्तरं गुरोः आशीर्वादेन आरुणिः अल्पकालेन एव सर्वासु विद्यासु पारङ्गतः भूत्वा ‘उद्दालक ऋषिः’ इति नाम्ना प्रसिद्धः बभूव।