Narration: © हर्षदा मादिराजु/CC BY-SA
भारतीय-समाजे मर्यादा-पुरुषोत्तमस्य भगवतः श्रीरामचन्द्रस्य नाम अतीव परिचितं वर्तते। सर्वे जनाः एनं भगवतः अवतारं मन्यन्ते। अत एव गृहे गृहे अस्य पूजा भवति, गृहे गृहे अस्य भजनं भवति। उत्तिष्ठन्तः उपविशन्तः, शयानाः जाग्रतः, श्वसन्तः जृम्भमाणाः तथा खादन्तः, पिबन्तः जनाः सर्वदा एव एतस्य स्मरणं कुर्वन्ति। चैत्रमासस्य शुक्ले पक्षे रामनवम्यां तिथौ समस्ते हिन्दुसमाजे अस्य जन्मोत्सवः महता समारोहेण भक्तिभावेन च मान्यते।
एतस्य संक्षिप्तं चरित्रं निम्नलिखितं वर्तते।
त्रेतायुगस्य कथा अस्ति। राजा दशरथः अयोध्यायां राज्यं करोति स्म। तस्य तिस्रः राज्ञ्यः आसन्। कौशल्या कैकेयी सुमित्रा च। आसां गर्भेभ्यः दशरथस्य चत्वारः पुत्राः उत्पन्नाः। रामः लक्ष्मणः भरतः तथा शत्रुघ्नः। एषु रामः कौशल्यायाः, भरतः कैकेय्याः तथा लक्ष्मणशत्रुघ्नौ सुमित्रायाः पुत्रौ आस्ताम्।
रामः सर्वेषु भ्रातृषु ज्येष्ठः आसीत्। अयं यथा वयसा ज्येष्ठः आसीत् तथैव गुणैः अपि श्रेष्ठः आसीत्। अयं बाल्यकालात् एव धार्मिकः सुशीलः, सत्यवादी, बुद्धिमान्, वीरः, मातापितृभक्तः सर्वेषां हितैषी च आसीत्। आत्मनः कुलगुरोः महर्षेः वशिष्टस्य सकाशात् अयं स्वल्प-कालेन एव सर्वाः विद्याः अधीतवान्। अस्त्रविद्यायां, गजारोहणे, अश्वारोहणे, नीतिशासखे, सर्वासु कलासु च अयं महतीं निपुणतां प्राप्तवान्। एभिः कारणैः सर्वः परिवारः, सर्वे परिजनाः, सर्वे राजकर्मचारिणः तथा सर्वाः प्रजाश्च रामस्य उपरि अतीव प्रीतिं कुर्वन्ति स्म।
एकदा ऋषिः विश्वामित्रः स्वयज्ञरक्षायै रामचन्द्रं स्वकीयं आश्रमं नीतवान्। तत्र स ताडकां तथा अन्यान् राक्षसान् हत्वा विश्वामित्रेण सह सीतायाः स्वयम्वरं द्रष्टुं जनकपुरं गतवान्। तत्र एव च राजर्षेः जनकस्य कन्यया सीतया सह तस्य विवाह-संस्कारः अभूत्।
विवाहानन्तरं राजा दशरथः रामचन्द्रं सर्वगुणैः सम्पन्नं दृष्ट्वा सर्वेषां सम्मत्या तं युवराजपदे अभिषेक्तुं कामयामास। परन्तु तस्य प्रियतमा राज्ञी कैकेयी इदं न रोचयामास। एकदा राजा दशरथः तस्यै द्वौ वरौ दत्तवान् आसीत्। कैकेयी तयोः वरयोः मध्ये एकेन वरेण रामचन्द्रस्य चतुर्दश-वर्ष-पर्यन्तं वनवासं तथा द्वितीयेन वरेण स्वपुत्रस्य भरतस्य राज्याभिषेकं प्रार्थितवती।
राजा दशरथः कदापि असत्यं न वदति स्म। अतः निजवचनस्य पालनाय अनिच्छन् अपि रामचन्द्रं वनवासाय आज्ञापयामास। रामः मातुः पितुश्च महान् आज्ञाकारी आसीत्। अतः स तयोः आज्ञया त्वरितमेव राजकुमार-वेषं परित्यज्य मुनिवेषं च धारयित्वा वनं प्रति प्रस्थानं कृतवान्। वनं गच्छन्तं रामं दृष्ट्वा स्नेहकारणात् सीता लक्ष्मणश्च तम् अनुजग्मतुः। ततः रामचन्द्रः सीता-लक्ष्मणाभ्यां सह वनाद् वनं परिभ्रमन्, अनेकानि वन्यानि दृश्यानि अवलोकयन्, ऋषीणाम् आश्रमेषु निवसन्, हिंसकान् जन्तून् निघ्नन्, यज्ञे विघ्नकरान् राक्षसान् दण्डयन् तथा तपस्विजनान् पूजयन् सुखपूर्वकं वने निवसितुं प्रववृते।
इतः पुत्रस्य वियोगम् असहमानः राजा दशरथः शीघ्रमेव स्वकीयान् प्राणान् तज्याज। तस्मिन् समये भरतः आत्मनः मातुलालये आसीत्। यदा भरतः मातुलालयात् निवृत्तः तदा भ्रातरं वनवासिनं पितरं च मृतं ज्ञात्वा स अत्यन्तं शोकाकुलः सञ्जातः। स निजमातरम् एव अस्य अनर्थस्य मूलं मत्वा तस्या उपरि अत्यन्तं क्रुद्धः बभूव तथा तस्याः मन्त्रदायिनीं मन्थरां च भृशं निजघान। अनन्तरं स रामचन्द्रं वनात् परावर्तयितुं वनं गतवान् तथा रामचन्द्रं च बहु प्रार्थितवान् परं रामचन्द्रः पितुः आज्ञाभङ्गभयात् चतुर्दशवर्षेभ्यः पूर्वं नगरं गन्तुं कथमपि न अङ्गीकृतवान्। स पादुकां दत्वा भरतं वनात् निवर्तयामास।
भरते निवृत्ते रामचन्द्रः विविधेषु वनेषु परिभ्रमन् दण्डकारण्यं समागतः। तत्र एका शूर्पणखानाम्नी रावणस्य भगिनी तथा राक्षसानां महती सेना च निवसति स्म। एकदा शूर्पणखा आगत्य रामचन्द्रेण सह विवाहं कर्तुं प्रस्तावं कृतवती। तस्याः इमां धृष्टतां दुष्टतां च दृष्ट्वा लक्ष्मणः तस्याः नासिकां कर्णौ च चिच्छेद। अनन्तरं रामचन्द्रः लक्ष्मणेन सह तस्मिन् वने निवसतां सर्वेषां राक्षसानां वधं कृतवान्। इमं समाचारं श्रुत्वा रावणः अत्यन्तं क्रुद्धः बभूव। ततः स स्वमातुलस्य मारीचस्य सहयोगेन रामलक्ष्मणौ दूरे अतिवाह्य स्वयं च मुनिवेषं धृत्वा सीतायाः अपहरणं कृतवान्।
सीतायाः अपहरणेन दुःखितः शोकाकुलश्च रामचन्द्रः इतस्ततः सीतायाः अन्वेषणं कुर्वन् किष्किन्धानगरं प्राप। तत्र बालिं हत्वा अयं वानरराजेन सुग्रीवेण सह मैत्रीं कृतवान्। ततः सुग्रीवद्वारा प्रेषितेन हनूमता सीतायाः लङ्कायां निवासं श्रुत्वा रामचन्द्रः वानराणां सेनया सह समुद्रे सेतुं बद्ध्वा लङ्कायाः उपरि आक्रमणं कृतवान्। तत्र रावणेन सह रामचन्द्रस्य महाभयङ्करं युद्धं जातम्। युद्धे अनेके राक्षसाः वानराश्च मृत्युं गताः। लक्ष्मणः अपि एकदा मूर्च्छितः जातः। परन्तु अन्ते राक्षससेनायाः पराजयः जातः तथा रामचन्द्रेण रावणः मारितः। ततः विभीषणं राज्ये अभिषिच्य सीतां च गृहीत्वा रामचन्द्रः लक्ष्मणेन सर्वैः वानरैश्च सह अयोध्याम् आजगाम।
अयोध्याम् आगत्य रामचन्द्रः भरतात् राज्यभारं जग्राह तथा भ्रातृभिः सह बहुवर्षपर्यन्तं राज्यं चकार। श्रीरामचन्द्रः महान् दयालुः तथा प्रजावत्सलः राजा आसीत्। अयं प्रजानाम् अनुरञ्जनाय महासाध्वीं सीताम् अपि वने परित्यक्तवान्। अस्य राज्ये सर्वे जनाः सुखिनः, सदाचार-परायणाः, आरोग्यवन्तः, धन-धान्य-सम्पन्नाः हृष्टपुष्टाः च आसन्। अतः एव जगति रामराज्यं आदर्शराज्यं मन्यते। अनेन एव कारणेन महात्मा गान्धी भारते रामराज्यं स्थापयितुं समीहते स्म।