श्रवणकुमारः एकः वैश्यकुमारः आसीत्। अस्य माता-पितरौ उभौ अपि नितान्तं वृद्धौ नेत्राभ्यां च अन्धौ आस्ताम्। वृद्धावस्थायां तयोः तीर्थाटनं कर्तुं विचारः समुत्पन्नः। श्रवणकुमारः आत्मनः मातुः तथा पितुः सेवाम् एव स्वकीयं परमं कर्तव्यं मन्यते स्म। अतः स मातरं पितरं च विहङ्गिकायाम् उपवेश्य तीर्थेषु भ्रमणं कारयितुं गृहात् निष्क्रान्तः तथा वनेषु पर्यटितुं प्रारेभे।
एवं स वनात् वनान्तरे भ्रमणं कुर्वन् तमसा नद्याः तीरं समागतः तत्रैव च निवासं चक्रे। संयोगवशात् तस्मिन् एव वने अयोध्यायाः राजा दशरथः एकदा आखेटकं कर्तुं समागतः। स कदाचित् आखेटकं कुर्वन् स्वसैनिकैः वियुक्तः मार्गं परित्यज्य तमसायाः तीरं सम्प्राप्तः।
इतः तस्मिन् एव समये श्रवणकुमारस्य माता-पितरौ पिपासितौ जातौ। तदा स तयोः पिपासा-शमनार्थं वारि आनेतुं तमसायाः तीरं जगाम। तत्र गत्वा स यदा जलाभ्यन्तरे प्रविष्टः जलपात्रं भर्तुं लग्नः तदा जले बुडबुड बुडबुड इति ध्वनिः समुत्पन्नः। तं ध्वनिं श्रुत्वा राजा दशरथः ज्ञातवान् यत् कश्चित् जन्तुः जलं पिबन् अस्ति। अतः एव ईदृशः शब्दः जायते।
राजा दशरथः शब्दवेधि-वाणविद्यायां नितान्तं निपुणः आसीत्। स तम् एव बुडबुड शब्दं लक्ष्यं कृत्वा त्वरितमेव वाणं विससर्ज। परं तत्र तु न कोऽपि जन्तुः आसीत्। अतः स वाणः श्रवणकुमारस्य एव शरीरे लग्नः तथा श्रवणः हा हा कृत्वा पृथिव्यां निपपात। तदा जन्तोः स्थाने मनुष्यस्य वाणीं श्रुत्वा दशरथस्य महत् आश्चर्यं जातम्। स त्वरितमेव धावन् नदीतटं प्राप्तः। तत्र स वाणेन आहतं श्रवणं पृथिव्यां पतितं दृष्ट्वा अत्यन्तं दुःखितः बभूव। स श्रवणं उत्त्थाप्य क्रोडे च निधाय तस्य परिचयं पृष्टवान्।
श्रवणः स्वकीयं परिचयं दत्वा कथितवान्—“राजन्! मम आत्मनः मृत्योः किमपि दुःखं नास्ति। परन्तु मम माता-पितरौ वृद्धौ अन्धौ च स्तः। इदानीं च तौ पिपासितौ वर्तेते। अतः भवान् तौ जलं पाययतु। तौ पिपासया आकुलौ मम प्रतीक्षां कुर्वाणौ भवेताम्।” राजा इदं हृदयद्रावकं वचनं श्रुत्वा महत् कष्टं अनुभवन् पुनः श्रवणं पप्रच्छ—कथय वत्स! अन्यः कस्ते अभिलाषः यमहं पूरयामि। श्रवणः उवाच—मम द्वौ एव अभिलाषौ वर्तेते। एकस्तु अभिलाषः अयम् यद् भवान् मम वृद्धयोः अन्धयोः मातापित्रोः सुखसुविधानां व्यवस्थां कुर्यात् तथा द्वितीयः अभिलाषः अयम् यत् भवान् अद्य आरम्भ कदापि वन्य-जन्तूनां हत्यां न विदध्यात्। एतावद् वचनं कथयतः श्रवणस्य गलावरोधः संजातः तथा कपिपयक्षणेषु स इहलीलां समाप्य स्वकीयान् प्राणान् असमये एव विससर्ज।
अनन्तरं राजा दशरथः कमण्डलौ जलं गृहीत्वा श्रवणस्य मातापित्रोः समीपं प्राप्तवान्। इदानीं तौ पिपासया आकुलौ श्रवणस्य नामग्राहं तं आह्वयन्तौ आस्ताम्। तदानीं कस्यापि आगमनसङ्केतं लब्ध्वा ‘वत्स श्रवण’ इति तौ अवोचताम्। परं तदानीं श्रवणः कुत्र? राजा शनैः तयोः समीपं गत्वा ‘गृह्णीताम् एतत् जलम्’ इति अब्रवीत्। अयं शब्दः श्रवणस्य नास्ति इति ज्ञात्वा तौ अपृच्छताम्—कोः भवान् अस्मभ्यं जलं प्रयच्छति? राजा तदानीं नितरां लज्जितः दुःखितश्च सर्वं वृत्तान्तम् अश्रावयत्। तदानीं तयोः उपरि वज्रपातः इव सम्वृत्तः। वृद्धा अवस्था। नेत्राभ्याम् अन्धौ। वने निवासः। तत्रापि अकस्मात् वाणेन हतस्य पुत्रस्य वियोगः। ईदृशी अनर्थ-परम्परा! इदानीं कः खलु जलं गृह्णाति तथा कश्च पिबति। उभौ अपि व्याकुलौ भूत्वा उरः ताडयन्तौ विलापं चक्रतुः, ऊचतुश्च राजानम्—राजन्! तव कारणात् एव पुत्रशोकेन पीडितौ आवाम् इदानीं प्राणान् परित्यजावः। अतः त्वमपि पुत्रशोकेन प्राणान् परित्यक्ष्यसि।
तत्कालपर्यन्तं राज्ञः दशरथस्य काऽपि सन्ततिः न आसीत्। अतः तयोः शापः अपि दशरथाय वरदानम् इव संवृत्तः। तस्य चत्वारः पुत्रा पुत्राः अभूवन् परं शापकारणात् रामस्य वियोगेन तस्यापि पुत्रशोके एवं प्राणाः गताः इति कथा प्रसिद्धा एव वर्तते।
त्रेतायुगस्य इयं कथा अस्ति अति पुरातनी। परन्तु श्रवणेन आत्मनः मातापित्रोः या अपूर्वा सेवा विहिता यथा च स तयोः सेवायाम् एव प्राणान् परित्यक्तवान् तस्य अद्यापि शत-शत-कण्ठैः सर्वत्र गानं भवति, श्रवणस्य च नाम मातापित्रोः भक्तिविषये जगति अमरं बभूव।