कस्मिश्चिदग्रहारे कश्चित् ब्राह्मणो वसति स्म। तस्य एकः कुमारः आस्त। स तेन कुमारेण सह कञ्चिद्ग्रामं प्रति प्रतस्थे। मार्गे स बालः तात, व्याघ्रस्समायासीद्याघ्रस्समायासीदिति मृषैव चुक्रोश। तदा पिता परावृत्य ददर्श। तत्र व्याघ्रो, नैवावर्तत। पितरि पुरतः किञ्चिदूरं गतवति सति शार्दूलस्सत्यमागत्य तं बालं जग्राह। तदा सः व्याघ्रस्समायासीदिति पुनर्व्याहरति स्म। तत्तातस्तु अयं पूर्ववन्मिथ्या वदतीति मनसि निश्चित्य अपरावर्तमान एव जगाम। तस्मादनृतवादिभिः कदाचित् सत्यमुक्तमपि जनास्तत् न प्रतियन्ति॥