कस्यचित्तटाकस्य तटे महान् तिन्त्रिणीतरुरवर्तिष्ट। तदुपरि कश्चिज्जरठो बकश्चिरान्निवसति स्म। स तु दूरगमनाशक्ततया तत्तटाकस्थान्मत्स्यान् भक्षयन्नासिष्ट। एवं स्थिते कदाचिदवग्रहवशात्तत्रतत्र तटाकादिषु शुष्कीभवत्सु निराहारतया समुद्रं यियासवः परश्शताः पक्षिणस्तन्मार्गेण समाजग्मुः। तानालोक्य स वृद्धो बकः प्रीतिपूर्वकमित्थमुवाच, अहो कृतार्थोस्मि, चिराद्बन्धुसन्दर्शनं जातं, आयात, इमान् तटाकस्थान् जलचरान् गृहीत्वा भक्षयत, इदं जलं पिबत, अस्मिस्तरौ निवसतेति, तदाकर्ण्य ते खगास्तं प्रति भो वृद्ध, वयमेतावन्तः त्वद्वचनानुरोधेन अत्रत्यान् जलचरान्भक्षयितुं प्रवृत्ताः यदि तटाके एकोपि जन्तुर्नावशिष्यते, ततस्तवाहारः दुर्लभस्स्यात् वृद्धस्त्वमत्रैव क्षुधा पीडितस्सन् मरिष्यसि, तस्मादस्मान् विसृज, इति जगदुः। तथापि स बकस्तान्नगन्तव्यमस्मिन्दिनेऽतैव वस्तव्यमिति बहुधा निर्बध्य तैस्सह तत्रत्यान् जलचरान् सर्वानपि भक्षयित्वा प्रातस्तमनुज्ञाप्य जग्मुः। अपरेद्युस्स तटाके सर्वत्र विचित्यापि कञ्चिदप्याहारमलभमानस्सन् स्थलान्तरगमनाशक्ततया त्रिचतुरदिनानन्तरं तत्रैव ममार। तस्माज्जनः स्वजीवनमनालोच्य सर्वस्वमपि व्यययेत चेत्, एवमचिरादेव नश्येत्।