॥ ॐ श्री गणपतये नमः ॥

बालानां भेकानां च कथामण्डिकल् रामशास्त्री
प्राणा यथाऽत्मनोऽन्येषां भूतानामपि ते तथा।आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः॥

कस्मिश्चिद्दिवसे केचित् बालाः कस्यचित्तटाकवारिवारणस्योपरि क्रीडन्तस्सन्तः तटाके विद्यमानान्भेकान्निरीक्ष्य विनोदार्थं पाषाणैः प्रहरन्ति स्म। ततस्तेष्वेको मण्डूकः तान्पृथुकान्वीक्ष्य, हे बालाः, अश्मभिरस्मत्प्रहरणं युष्माकं विहारायते, अस्माकं तु प्राणहानिं जनयतीति तान्निनिन्द। तस्माद्विनोदार्थमपि हिंसाकरं कर्म न कर्तव्यम्॥


संस्कृतकथासप्ततिः. 1914. p 2CC0. No rights reserved