धारापुरे कश्चिद्ब्राह्मणोऽवर्तत। स कदाचित्पुष्पफलमपचेतुं अरण्यमाससाद। ततैकश्शार्दूलस्तं दृष्ट्वा अनुधाव्य जग्राह। तदा अतिभीतस्सविप्रस्तं नमस्कृत्य, अये पुण्डरीकेश्वर कृपया मां दिनत्त्रयपर्यन्तं मुञ्च मत्पत्नीपुत्रादीनालोक्य पुनरागत्य तव ग्रासीभविष्यामि, इति सानुनयं सशपथं च प्रार्थयामास। तदा स पुण्डरीकोपि तथैवानुमेने, ततस्स द्विजः स्वगृहमासाद्य स्वकृत्यमखिलं निर्वर्त्य सत्यसन्धतया व्याघ्रसमीपमाजगाम। द्वीपीतुतं दृष्ट्वा नितरा सन्तुष्य त्वादृशं सत्यप्रतिज्ञं कुत्रापि नापश्यमिति प्रशस्य सुखमास्वेत्युक्त्वा गृहं प्रति प्राहिणोत्। तस्मात्सत्यवादिनं शत्रवोपि बहुमन्यन्ते।