कर्णाटेषु हैमन्तोनाम कुविन्दोऽवर्तत। सः बहुमूल्यान्पटान्वयन्नासीत्। तथाप्ययं मितादाय एवाभवत्। तत्प्रातिवेशिकः धीमान्नाम कश्चित्तन्तुवायः स्थूलस्थूलतन्तुकावकार्यान्पट्टांश्च वयन् सुखेनैव वसन्बहुधनवानभूत। तमवलोक्याद्यः निपुणस्यापि ममास्मिन्ग्रामे न धनलाभ इत्यालोच्य देशान्तरमयासीत्। तत्र स्वनैपुण्यात् बहुधनं सम्पाद्य परावर्तमानो मार्गे कचित्सत्रे न्यद्रासीत् । तदा तस्करास्तद्धनमपजहुः। प्रातस्सुतरां व्यथितस्सः स्वग्राममेत्य यथापुरमवात्सीत्, तस्मान्महाप्रयत्नवतापि दैवनिबन्धनमतिक्रमितुं न शक्यते।