कस्मिश्चिद्दिवसे द्वौ बालौ किञ्चिदुद्यानमगमताम्। तयोरेको बालः कस्य चित् वृक्षस्योपरि समीचीनानि फलानि दृष्ट्वा अपचेतुमैच्छत्। तदा द्वितीयः फलानि मापचिनु, औद्यानिकः पश्येद्यदि ताडयिष्यतीत्यवदत्। सः तस्य वचनमनादृत्यैव तरुमारुह्य फलान्यपाचिनोत्। तावदेव स औद्यानिकस्समागत्य फलानि किमर्थमपाचिनोः इत्युक्त्वा तं जग्राह। स बालस्तु इमानि नाहमपाचिनवं, अयमपचित्य मम हस्ते अदात्, इति स्वस्य सद्बुद्धिमुपदिष्टवन्तं सखायमदर्शयत्। स औद्यानिकस्तं गृहीत्वा अदण्डयत्। तस्मात् दुर्जनसङ्गो न कर्तव्यः॥