कस्मिंश्चित् ग्रामे कश्चन बालः आसीत्। स कञ्चिदारामं प्राप्य तत्र कस्य चित् रसालवृक्षस्योपरि उत्तमं फलमपश्यत्। तदपचित्य भक्षयेयमित्यपेक्ष्य अपचेतुमयतत। तं वृक्षं परितः कण्टकवृतिर्वर्तते स्म। स तस्याः भीत्वा फलमनपचित्यैव गृहं जगाम। तदा अन्यो बालस्तत्फलमालोक्य परितस्स्थितायाः कण्टक-वृतेरसन्त्रास्य तं वृक्षमारुह्य फलमपचित्याभक्षयत्। तस्माद्धैर्यवतामेव कार्यसिद्धिर्भवति।